________________
श्रीनर्मदासुदरीचरित्रम् • १६५ मागत्य प्रवहणोपरि समारूढः कथितं च तेन कपटकुटिलचेतसा नाविकादिलोकानां पुरो यन्मम महिला राक्षसैक्षिता । अहं च कथमपि २४प्रपलाय्यागतोस्मि । निशाचरप्रकराश्च२५ पृष्ठे समागच्छन्ति, तत इतस्तूर्णं प्रवहणं सज्जीकृत्य वाहयत इति श्रुत्वा भयाकुलचेतसो नाविका द्रुतं ततः पोतं वाहयामासुः । अथ पोतस्थितेन महेश्वरेण चिन्तितं सम्यग्जातं यद्यपगतलोकापवादं मयैषा दुःशीला त्यक्ता । अथ पवनप्रेरितः पोतोऽयं यवनद्वीपे प्राप्तः।
कियत्कालानन्तरं स श्रेष्ठी ततो बहुधनमुपाय॑ निजगृहे समायातः । कथितं च तेन निजपरिवाराय राक्षसभक्षणादिनिजभार्यास्वरूपं । शुचं प्राप्तेन परिवारेण च तस्याः प्रेतकार्यादिकृतं । महेश्वरश्चान्यां भार्यां परिणीतवान् ।
____ अथ तत्र सुप्तोत्थिता नर्मदासुन्दरी तत्र निजभर्तारमदृष्ट्वा २६हृदयास्फोटं पूत्कारं कुर्वन्ती विविधविलापैर्वनवासिजन्तूनपि रोदयन्ती हा नाथ ! मामिहैकाकिनी मुक्त्वा त्वं कथमव्रजः ? इति पुनः पुनः प्रजल्पन्ती, नयनाश्रुजलैर्वनवृक्षसञ्चयान् सिञ्चयन्ती, वदनतो २ दीर्घोष्णनिःश्वासान्निष्कासयन्तीतस्ततोऽटन्ती, तटिनीपतेस्तटमागता । परं तत्रापि प्रवहणमनालोक्य हृदयोद्भूतातीवदुःखतो मूर्छा प्राप्ता, सुरभिशीतलानिलतः २“पुनःसचेतनीभूय नानाविलापमुखरीकृतकाननैषा चिन्तयामास अथानन्यशरणाया ममात्मघात एव शरणं । पुनस्तया चिन्तितम्, २९संसारसागरतरणैकयानपात्रनिभजिनागमे प्रतिषिद्धबालमरणकरणतो न ममात्मनः कापि श्रेयोऽर्थप्राप्तिः । किञ्च न जानेऽमहत्र भ; कथमेकाकिनी त्यक्ता, नूनं मया तदा या जैनमुनेराशातना कृता तन्मे दुष्कर्म उदयमागतमेव इति विचार्य सा मृत्तिकातः एकां श्रीजिनप्रतिमां कृत्वा सर्वदा तत्र पूजयति वनफलादि च भक्षयति, इत्थं सा नमस्कारध्यानपरायणा स्वकर्मनिन्दनतत्परा धर्मप्रभावतो वनवासिङ्करप्राणिभिरनुपद्रुता निजसमयं गमयाञ्चकार । अथैकदा तस्याः पितृव्यो वीरदासाभिधानो बब्बरकुलं प्रति गच्छन् जलेन्धनाद्यर्थं प्रवहणस्थस्तत्र समागत, तेन रत्नाकरोपकण्ठे भ्रमन्ती नर्मदासुन्दरी दृष्टोपलक्षिता३० च । विस्मयमापन्नेन तेन पृष्टम्, हे पुत्री !