________________
१६४ • सुलभ-चरित्राणि अकस्माच्च तन्निष्ठीवनं पथि गच्छतो जैनमुनेरेकस्य मस्तकोपरि पतितम, मुनिनोक्तम्, यद्येवं त्वं मुनीनामाशातनां करोषि, तेन तव भर्तुवियोगो भविष्यतीति श्रुत्वा भयसहितं विषादं दधाना सा १४तूर्णमेव गवाक्षादुत्तीर्य मुनेश्चरणयोर्मनमस्कृत्यानुपयोगतो विहितं निजापराधं क्षमयामास । मुनिनोक्तम्भो महानुभावे ! मम हृदये मनागपि क्रोधो नास्ति १५मन्मुखादेतद्वाक्यं वृथैव निर्गतं तेन त्वं खेदं मा कुरु । अथ नर्मदासुन्दरी स्वकर्मणामेव दोषं ददती गृहे समागता । अथैकदा महेश्वरदत्तो व्यापारार्थं द्वीपान्तरं प्रति प्रस्थितः, तदा मोहाकुलमानसया स्त्रिया भणितम्, हे स्वामिन्नहमपि भवता सार्धमेव समागमिष्यामि । यतो भवद्वियोगं सोढुमहमशक्तैव, तस्या अत्याग्रहं विज्ञाय सोऽपि तया सह प्रवहणारूढो१६ द्वीपान्तरं प्रति चलितोऽवगाहितश्च तेन भूयान् पन्थाः ।
अथैकदा रात्रौ प्रवहणमध्ये केनचित्पुरुषेण गायनं कर्तुं प्रारब्धं तत् श्रुत्वा नर्मदया भर्तुरग्रे कथितम्, हे स्वामिन् । योऽयं पुरुषो गायति, तस्य शब्दानुसारेणाहं जानामि, यदयं पुरुषो श्यामवर्णः स्थूलहस्तपादो दुर्बलदेहो १७मषाङ्कितगुह्यस्थानो द्वाविंशतिवर्षप्रमाणो विशालहृदयश्चास्ति, तत् श्रुत्वा भर्ना चिन्तितम्, नूनमियमसती वर्त्तते, नो चेदियमेतादृशी१८ वार्ता कथं जानीयात्, अथ प्रभाते तेन स पुरुषो दृष्टः पृष्टश्च तदा तत्सर्वमपि यथोक्तं मिलितम् । अथ श्रेष्ठिना निजहृदयोद्भूतक्रोधानलमवसरे क्षणभस्मनाच्छाद्यस्थितं । इतः कतिचिदिवसानन्तरं राक्षसद्वीपमासाद्य नाविकैः कथितम्, भो लोका ! अहमत्र प्रवहणं स्थिरीकरोमि, अयं राक्षसद्वीपः समायातः, यः कोऽपि १९जलेन्धनादिग्रहणेच्छुर्भवेत् तेन तत् शीघ्रमेव ग्राह्यमित्युक्त्वा तेन प्रवहणं स्थिरीकृतं । सर्वेऽपि लोकास्तत्र शनैः शनैरुत्तीर्य जलेन्धनादिसञ्चयं चक्रु । अथ महेश्वरेणापि तया सहोत्तीर्य चिन्तितम्, किमहमेतां दुःशीलां जलधौ निधानीकरोमि२° वा विषं दत्वा २१यमकिकरित्वं प्रापयामीति विचारयन् स तया सह क्रीडामिषेण कदलीकानने समागतः सुप्तश्च क्षणं २२कदलीदलकोमलशय्यायां, अथ तत्र नर्मदासुन्दरी २३आन्दोलितकदलीदलालिभिः सुरभिवनवातैस्तूर्णं निद्रां प्राप्ता, एवं सुखसुप्तां तां तत्रैव विमुच्य महेश्वरदत्तस्तूर्णं ततः समुत्थाय रत्नाकरतट