________________
श्रीसत्यभामाचरित्रम् • १५९
सर्वज्ञो हृदि वाचि तद्गुणगणः कायेन देशव्रतम्, धर्मे तत्परता परः परिणतो बोधो बुधश्लाघ्यता । प्रीतिः साधुषु बन्धुता बुधजने जैने रतिः शासने, यस्यैवं भवभेदको गुणगणः स श्रावकः पुण्यभाक् ॥३॥ कृत्वार्हत्पदपूजनं यतिजनं नत्वा विदित्वागमम्, हित्वा सङ्गमधर्मकर्मठधियां पात्रेषु दत्त्वा धनम् । गत्वा पद्धतिमुत्तमक्रमजुषां जित्वान्तरारिव्रजम्, स्मृत्वा पञ्चनमस्क्रियां कुरु करक्रोडस्थमिष्टं सुखम् ॥४॥
इत्यादिधर्मोपदेशश्रवणानन्तरं श्रीकृष्णः प्रभुं प्रणम्य पप्रच्छ, हे स्वामिन् ! ममैता अग्रमहिष्यः सत्यो वा न ? भगवानाह भो कृष्ण ! सर्वा अपि तवैता अग्रमहिष्यः सत्यः सन्ति । तद्विषये मनागपि त्वया संशयो न विधेयः । ततः कृष्णेन पुनः पृष्टम्, हे भगवन् ! वर्षमध्ये का तिथिः सर्वोत्कृष्टा वर्तते ? प्रभुराह, हे कृष्ण ! मार्गशीर्षस्य शुद्धैकादशी तिथि: सर्वोत्कृष्टा वर्तते, यतस्तस्यां तिथौ पञ्चसु भरतेषु पञ्चसु चैरवतेषु तीर्थकराणां पञ्च पञ्च कल्याणकानि जातानि ।
एवं तत्र तिथौ सर्वाणि मिलित्वा पञ्चाशत् (५०) कल्याणकानि जातानि सन्ति । अतः कारणात् सा तिथिर्वर्षमध्ये सर्वोत्कृष्ट वर्तते । तेन तस्यां तिथौ सविशेषं तपः कार्यं, तपो हि सर्वकर्मक्षयं विधाय मोक्षसुखं यच्छति, यतः -
विरज्य विषयेभ्यो यै - स्तेपे मोक्षफलं तपः । तैरेव फलमङ्गस्य, जगृहे तत्त्ववेदिभिः ॥१॥
यद् दूरं यद् दुराराध्यम्, यच्च दूरे व्यवस्थितम् । तत्सर्वं तपसा साध्यम्, तपो हि दुरतिक्रमम् ॥२॥ यस्माद्विघ्नपरम्परा विघटते दास्यं सुराः कुर्वते, कामः शाम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति ।