________________
१५८ • सुलभ-चरित्राणि सत्यभामया प्रोक्तं, स्वामिन् ! तां रुक्मिणीमेव पट्टराज्ञी३१ ३२विधित्सया त्वया नूनमहं छलिता, ततोऽत:परं सैव ते पट्टराश्यस्तु । इत्युक्त्वा क्रुधा मुखं मोटयन्ती सत्यभामा ततो निःसृत्य निजवासे जगाम । एवं तां रुक्मिणीमेव पट्टराणी विधाय श्रीकृष्णः सुखेन राज्यं करोति स्म । एवं च तस्य श्रीकृष्णवसुदेवस्य पद्मावती, गौरी, गान्धारी, लक्ष्मणा, सुसीमा, जम्बूवती, सत्यभामा, रुक्मिणीत्य-भिधाना अष्टौ पट्टराइयोऽभवन् ।
अथैकदा श्रीसमुद्रविजयांगजो३३ नेमिकुमार राज्यादितृणवत्त्यक्त्वा, वर्षं यावच्च दानं दत्त्वा गिरनारगिरिं गत्वा संयमं जग्राह । क्रमेण स केवलज्ञानं प्रपेदे । स श्रीनेमिजिनो भव्यजीवान् प्रतिबोधयन्नन्यदा द्वारिकाया नगर्या बहिरुद्याने समवासार्षीत् । देवैश्च समवसरणं विहितम् । तदोद्यानपालेन ३४तूर्ण गत्वा श्रीकृष्णाय निवेदितम्, हे स्वामिन् ! नगर्या बहिरुद्याने श्रीनेमिप्रभुः समवसृतोऽस्ति, देवैश्च समवसरणं कृतमस्ति ।
तत् श्रुत्वा हृष्टः कृष्णस्तस्मै उद्यानपालाय पारितोषिकं दत्त्वा समुद्रविजयवसुदेवादिपरिवारयुतः प्रभोर्वन्दनार्थं नगर्या बहिरुद्याने जगाम । तत्र च प्रभुं त्रिःप्रदक्षिणीकृत्य तन्मुखाद्धर्मोपदेशं श्रोतुमुचितस्थाने स समुपविष्टः । प्रभुणापि धर्मोपदेशो दत्तः, यथास्वर्गस्तस्य गृहाङ्गणे सहचरी साम्राज्यलक्ष्मी: शुभा, सौभाग्यादिगुणावलिविलसति स्वैरं वपुर्वेश्मनि ।३५ संसारः ३६सुतरः शिवं करतलक्रोडे लुठत्यञ्जसा,३७ यः श्रद्धाभरभाजनं जिनपतेः पूजां विधत्ते जनः ॥१॥ रत्नानामिव रोहणक्षितिधरः खं३८ तारकाणामिव, स्वर्गः कल्पमहीरुहामिव सर: पङ्केरुहाणामिव । पाथोधिः पयसामिवेन्दुमहसां स्थानं गुणानामसावित्यालोच्य विरच्यतां भगवतः श्रीसपूजाविधिः ॥२॥