________________
श्रीसत्यभामाचरित्रम् • १५७ सह हास्यविनोदः कर्तव्यः एवं च ताभिः प्रणता त्वं सर्वासु राज्ञीष्वग्रमहिषी भविष्यसि । एवं कृष्णेनोक्ता सा रुक्मिण्यपि तत्कुतूहलकरणमङ्गीचकार।
अथैवं तां रुक्मिणीं तत्रोद्याने लक्ष्मीमन्दिरे मुक्त्वा कृष्णो बलभद्रयुतो नगरमध्ये निजावासे जगाम । एवं रुक्मिणीरहितं कृष्णं गृहे समागतं वीक्ष्य स्त्रीस्वभावतो मनागीाभिभूता सत्यभामा जगाद, हे स्वामिन् ! त्वया कीदृशी प्रियाऽऽनीतास्ति, क्व च स्थापितास्ति, अहंतांन:२७ सपत्नीं विलोकयितुमिच्छामि ।
तत् श्रुत्वा कुतूहलप्रियः कृष्णो मनाग् विहस्य प्राह, भो सत्यभामे ! सा निजरूपयौवनमदोन्मत्ता मयोपवने लक्ष्मीमन्दिरे स्थापितास्ति ।
यदि ते तद्विलोकनेच्छा तदा त्वं तत्र वज्र,२८ एवमुक्ता सत्यभामा स्त्रीचपलस्वभावतस्तस्या रूपविलोकनार्थं भृशमुत्कण्ठिता बभूव यतः - यदि स्थिरा भवेद्विद्युत्तिष्ठन्ति यदि वायवः । दैवात्तथापि नारीणाम्, न स्थेम्ना२९ स्थीयते मनः ॥१॥
एवं रुक्मिणीविलोकनार्थं भृशमुत्कण्ठिता सत्यभामा, पद्मावत्यादिकृष्णाग्रमहिषीयुता रथारूढा द्रुतं तत्रोद्याने लक्ष्मीमन्दिरे प्राप्ता । अथ तत्रासनोपविष्टां स्थिरदेहां तां रुक्मिणी लक्ष्मीमूर्तिमेव मन्यमानाः सत्यभामाद्यास्ताः सर्वा अपि कृष्णाग्रमहिष्यस्तस्याः पादयोः प्रथमं प्रणामं चक्रुः । ततो रुक्मिणीविलोकनार्थं यावत्ता अग्रे गन्तुं प्रवृत्तास्तावत्सा रुक्मिणी २५द्रुतमासनादुत्थाय ३°दत्तकरताला विस्मितास्ताः सर्वा अपि विनोदयामास।
राजभृत्यैश्च द्रुतं तत्रासने पुनः सा लक्ष्मीमूर्तिः स्थापिता । अथ निजस्वामिनस्तां कपटकलां विज्ञाय मनस्सु दूनाः सत्यभामाद्यास्ताः सर्वा अपि अग्रमहिष्यस्ततः पश्चाद्वलित्वा गृहे समागताः । इतस्तत्रागतं श्रीकृष्णं सत्यभामा प्राह, हे स्वामिन् ! वयं मुग्धास्त्वया सम्यग् वञ्चिताः, यद्रुक्मिण्याः पादयोः पातिताः।
तत् श्रुत्वा हास्यं विधाय कृष्णो जगौ, भो सत्यभामे ! युष्माभिः सा यदा लक्ष्मीबुद्ध्या वन्दिता, ततोऽतःपरं सैव पट्टराज्यस्तु । तदा क्रुद्धया