________________
१५६ • सुलभ-चरित्राणि एवंविधानि रुक्मिण्या वचांसि श्रुत्वा, तां च व्याकुलीभूतां विज्ञाय हरिराश्वासयामास । हे प्रिये ! त्वं भयं मा कुरु, सर्वमप्येतन्महत्सैन्यमावयोरगे काकनाशं९ पलाय्य दूरं यास्यति । एवमाश्वासिता रुक्मिणी निजस्वामिनं कृष्णं प्रति प्राह, हे स्वामिन् ! युद्धं कुर्वद्भ्यां युवाभ्यां कथञ्चनापि रुक्मिनृपो रक्षणीयः तस्य वधो नैव कार्यः । अथ तत्सैन्यं निकटे समागतं निरीक्ष्य तौ द्वावपि भ्रातरौ तेन सह युद्धं कर्तुं प्रवृत्तौ । हलमुशलादिशस्त्रैस्तौ द्वौ युद्धं कुर्वन्तौ विद्विषां रथवाजिगजसुभटान् चूर्णयामासतुः ।
एवं तयोर्द्वयोर्धात्रोरतुलं बलं विज्ञाय रथस्था२० रुक्मिणी विस्मयं प्राप्ता। इतो युद्धं कुर्वता २१नारायणेन रुक्मिण्यां पश्यन्त्यामेव शिशुपालशिरः कमलनालवच्छिन्नम् ।२२ इतो बलदेवो रुक्मिनृपं बद्ध्वा प्रोवाच, भो रुक्मिभूप ! रुक्मिणीवधूवचनात्त्वां जीवन्तं मुञ्चामि । इत्युकत्वा मुक्तबन्धनं तं स मुमोच । सलज्जो२३ रुक्मिभूपोऽपि तत्रैव नगरं निवेश्य तस्थौ।
एवं लब्धजयौ तौ द्वावपि भ्रातरौ ततश्चलितौ, क्रमेण द्वारिकाया बहिरुद्याने समायातौ २४स्वर्गपुरसोदरां तां द्वारिकापुरीं दूरादेव दृष्ट्वा रुक्मिणी निजं स्वामिनं प्राह, हे स्वामिन् ! इयं नगरी नूनमतीवमनोहरा दृश्यते, परमहं त्वया छलेनानीतास्मि, अतः सपत्नगणेऽहं हास्यास्पदं भविष्यामि । तत् श्रुत्वा कृष्णस्तां जगाद, भो प्रिये ! एतद्विषये त्वया मनागपि खेदो न कार्यः, अहं त्वां सर्वासु मदीयराज्ञीषु मुख्यां पट्टराज्ञीमेव करिष्यामि, तेन तासां मध्यात्कापि तव मनागपि हास्यचेष्टां न करिष्यति । इत्युक्त्वा कृष्णस्तत्रैवोद्याने तां गान्धर्वविवाहेन पर्यणयत् । अथ तत्रैवोद्याने लक्ष्म्या देव्या एकं मन्दिरमासीत्, तत्र मन्दिरे च मानुष्याकारप्रमाणोपेता लक्ष्मीमूर्तिः स्थापिता बभूव ।
___ तां मूर्तिमुत्थाप्य हरिस्तत्र तां रुक्मिणीपुमापावेशयत्, ततः सा कृष्णेनोक्ता हे प्रिये ! सत्यभामाद्या मदीयाग्रमहिष्यो मया प्रेषिता अत्र लक्ष्मीदेवीं वन्दनार्थं समागमिष्यन्ति । तस्मिन्नवसरे त्वया क्षणं स्थैर्यभावेनैव स्थातव्यम्, लक्ष्मीमूर्तिबुद्ध्या च ताः सर्वा अपि किङ्कर्य२५ इव तव चरणयोः प्रणामं करिष्यन्ति । तत्प्रणामानन्तरं च त्वया स्वात्मानं प्रकटीकृत्य२६ ताभिः