________________
श्रीसत्यभामाचरित्रम् • १५५ समीहते, तेन त्वां निश्चयेन शिशुपालाय दास्यति । तत् श्रुत्वा रुक्मिणी जगौ, मया तु मनसा विष्णुरेव पतित्वेनाङ्गीकृतोस्ति, अतोऽहं तं विनान्यस्य कस्यापि पाणिग्रहणं न करिष्ये । एवं तां रुक्मिणी विष्णावेवासक्तां विज्ञाय सा तत्पितृस्वसा द्रुतं तं वृत्तान्तं कृष्णं प्रति ज्ञापयामास । यथा रुक्मिणी त्वय्येव सानुरागा वर्तते, कथमपि शिशुपालं परिणेतुं नैव वाञ्छति, तेन गुप्तवृत्त्या त्वयात्र नगरोद्याने समागन्तव्यं माघाष्टमीदिने च नागपूजामहोत्सवमिषेणाहं१४ रुक्मिणीमुद्याने चानेष्यामि, पूर्वतश्चागतेन त्वया सा तत्राङ्गीकर्तव्या।
___ इतश्च विहितवैवाहिकमहोत्सवः शिशुपालोऽपि रुक्मिण्याः पाणिग्रहणोत्सुकश्चपलः तत्र परिवारयुतः कुण्डिनपुरनगरे समायातः । अथ कलिप्रियनारदर्षेर्मुखात्तत्र शिशुपालागमनं विज्ञाय बलदेववासुदेवावपि निजनिजरथारूढौ द्रुतं तत्र कुण्डिनपुरोद्याने समागतौ । तदा सा पितृस्वसा तां रुक्मिणी प्राह, भो भद्रे ! तवेप्सितो भर्ता श्रीकृष्ण उद्याने समायातोऽस्ति, अतः साम्प्रतं त्वं विलम्बं मा कुरु, तूर्णं रथमारुह्यावां नागपूजामिषेणोद्यानं गच्छावः । तत् श्रुत्वा सा रुक्मिण्यपि १५सज्जीकृते रथे तया पितृस्वस्रा सह समारुह्योद्याने समायाता, कृष्णस्य मिलिता च । ततः कृष्णोऽपि प्रेमभरेण तां निजरथे समारोपयत् । अथ १६स्त्रीचातुर्यप्रविणा सा पितृस्वसा श्रीकृष्णं केनाप्यजीयमानवैभवं विज्ञाय स्वोपरि १ समागच्छद्दोषापहारायोच्चैः पुच्चकार, भो भो सुभटाः ! धावत ! धावत ! इयं रुक्मिणी हरिणा बलात्कारेणापहियते । इतो वासुदेवोऽपि स्वं मनोरथं परिपूर्ण विज्ञाय हर्षात् स्वं पाञ्चजन्यं शङ्ख पूरयित्वा रुक्मिणीयुतो निजं रथं वेगेन निजपुरं प्रति चालयामास । बलदेवोऽपि तत्पृष्टो निजं रथं प्रेरयति स्म । अथैवं हरिणा हीयमाणां रुक्मिणी विज्ञाय क्रोधोद्धतौ दमघोषरुक्मिनृपौ भूरिसैन्ययुतौ वार्जित्रनादैश्च दिग्गणं पूरयन्तौ तत्पृष्टे दधावतुः । एवं पृष्टे भूरिसैन्यं समागच्छन्तं विलोक्य मनसि विह्वलीभूता रुक्मिणी श्रीकृष्णं प्रति प्राह
युवामेकाकिनौ नाथ, तौ त्वसङ्ख्यबलान्वितौ । मत्कृतेऽयमपायोऽभू१८-धुवयोराकुलास्मि तत् ॥१॥