________________
१५४ • सुलभ - चरित्राणि
तया त्वामेव परिणेतुं निश्चयः कृतोऽस्ति, अथ तत्र त्वं दूतं सम्प्रेष्य रूक्मिभूपात्तां मार्गयस्व । इत्युक्त्वा नारदस्ततो निःसृत्यान्यत्र जगाम ।
अथैवं नारदवचांसि निशम्य प्रहृष्टः कृष्णस्तत्कालं तां रुक्मिणीं मार्गयितुं विचक्षणमेकं दूतं रूक्मिभूपपार्श्वे प्रेषयामास स दूतोऽपि तत्र गत्त्वा रुक्मिनृपाय कृष्णोक्तं सन्देश कथयामास । रुक्मिणा चोवाय भो दूत ! मया पुरैव ममेयं भगिनि रुक्मिणी शिशुपालाय दत्तास्ति, कन्या हि सकृदेव १२ दीयते । किं च तस्मै कुलहीना गोपालाय मे भगिनीं दातुं सर्वथैवाहं नेच्छामि । यतः -
कुलं च शीलं च सनाथता च, विद्या च वित्तं च वपुर्वयश्च । वरे 'गुणाः सप्त विलोकनीय
स्ततः परं भाग्यवशा हि कन्या ॥ १ ॥
किं च स गोपालः कृष्णो बहुपत्नीको वर्तते । अतोऽहं मम स्वसारं
सपत्नीनां कष्टे पातयितुं न वाञ्छामि यतः
वरं रंककलत्रत्वम्, वरं वैधव्यवेदना ।
वरं नरकावासो वा मा सपल्या पराभवः ॥ १ ॥
"
अतः स शिशुपालनृप एव तस्या योग्यो वरोऽस्ति, तेन सह परिणीता च सा भृशं शोभां प्राप्स्यति, यतः -
हेमं१३ रत्नाश्रितं भाति, ज्योत्स्ना चन्द्राश्रिता पुनः । नागवल्लया मुखं यद्व-तथेयं तेन निश्चितम् ॥१॥
इत्याद्युक्त्वा रुक्मिनृपेण स कृष्णदूतः पश्चाद्वालितः, एवं निराशीभूतः स दूतस्ततो निःसृत्य द्रुतं श्रीकृष्णपार्श्वे समागत्य रुक्मिनृपोक्तं सर्वं वृत्तान्तं
कथयामास ।
इतो रुक्मिण्याः पितृस्वसा तत्कृष्णयाचनस्वरूपं विज्ञाय तं वृत्तान्तं रुक्मिण्यै कथयामास, यथा तव भ्राता विष्णुना याचितामपि त्वां तस्मै दातुं न