________________
श्रीसत्यभामाचरित्रम् • १५३
सा रुक्मिणी कुमारिका कृष्णं प्रत्यनुरागं धारयन्ती तमेव परिणेतुं निश्चयमकरोत्, ततो रुक्मिण्या सत्कृतस्तस्या रूपं चित्रपट्टे समालिख्य नारदस्ततो निःसृत्य द्वारावत्यां कृष्णपार्श्वे समागत्य तच्चित्रपट्टं तस्मै दर्शयामास । तच्चित्रं दृष्ट्वा मदनबाणविद्धस्य॑' कृष्णस्य मनसि तस्यामनुरागोऽभूत् । यतः -
तावन्महत्त्वं पाण्डित्यम्, कुलीनत्वं विवेकिता । यावज्जायते नाङ्गेषु, हन्त पञ्चेषुपावकः ॥१॥ शम्भुस्वयंभुहरयो हरिणेक्षणानाम्, येनाक्रियन्त सततं गृहकर्मदासा । वाचामगोचरचरित्रपवित्रिताय, तस्मै नमो बलवते कुसुमायुधाय ॥२॥ मत्तेभकुम्भदलने भुवि सन्ति शूराः, केचित्प्रचण्डमृगराजवधेऽपि दक्षा: ८ । किन्तु ब्रवीमि बलिनां पुरतः प्रसह्य, कन्दर्पदर्पदलने विरला मनुष्याः ॥३॥ तावदेव हृदये कृतिनामपि, स्फुरत्येष निर्मलविवेकदीपकः । यावदत्र न १० कुरङ्गचक्षुषां, ताड्यते ११ चटुललोचनाञ्चलैः ॥४॥
एवं तच्चित्रपट्टं विलोक्य कामविह्वलः कृष्णो नारदं प्रति जगौ, भो नारदर्षे ! कस्याः स्त्रियः स्वरूपमत्र चित्रपट्टे चित्रितमस्ति ? तदा नारदोऽवदत्, भो कृष्ण ! इदं कुण्डिनपुरस्वामिनो रुक्मिनृपस्य लघ्व्याः स्वसुः रुक्मिण्याः स्वरूपं चित्रितमस्ति, सा चाद्यापि कुमारी वर्तते । तत्रान्यदा गतोऽहं तस्याः पुरस्तात्तव गुणानवर्णयम्, तेन च सा त्वां प्रति भृशमनुरागवती जातास्ति, ततश्च