________________
[ १७ ]
॥ श्रीसत्यभामाचरित्रम् ॥
शीलादिरुचिरं धर्मम्, कुर्वाणो मानवोऽनिशम् । सत्यभामेव लभते, साधुवादं पदे पदे ॥ १ ॥
द्वारावत्यां नगर्यां श्रीकृष्णो वासुदेवो राज्यं करोति स्म । अथान्यदाकलिकुतूहलो 'नारदर्षिः कृष्णसभायां समायातः । एवं नारदं समागतं दृष्ट्वा हरिः कतिचित्पदानि तत्सन्मुखं गत्वा तं वन्दते स्म । ततो हरिणा तस्य भूरि सत्कारः कृतः, यतः स नारदर्षिस्तस्यास्खलितब्रह्मचर्यव्रतेन जगति सर्वत्रापि सर्वराजसभासु पूज्यते । एवं क्षणवारं कृष्णसभायां स्थित्वा स कुतूहलतस्तस्यान्तःपुरे ययौ । तस्मिन् समये हरेः पट्टराज्ञी सत्यभामा दर्पणमध्ये निजमुखं विलोकयन्ती स्थितासीत् । तत्रागतं नारदर्षि विलोक्यापि तं विरतिरहितं मन्यमाना सत्यभामा नमस्कारेणापि तस्यादरं नाकरोत् एवं स्वकीयावज्ञां विज्ञाय मनसि क्रुद्धो नारदो व्यचिन्तयत्, अहो ! देवाधीश्वरस्य पट्टदेव्योऽपि कदापि मदीयावज्ञां न कुर्वन्ति, परमियं सत्यभामा कृष्णस्य पट्टराज्ञीत्वेनाभिमानपर्वतारूढास्ति ।
यतः ३ - अहंकारे सति प्रौढे, वदत्येवं गुणावली ॐ । अहंकारे पतिष्यामि समायाता त्वदंतिकम् ॥१॥
इति चिन्तयन् स नारदर्षिः क्रोधेन तां सत्यभामां गर्विष्टां मन्यमानः सपत्नीदुःखे ह्येनां पातयामीति धिया द्रुतं ततो निःसृत्य गगनमार्गेण कुण्डिनाभिधं पुरं ययौ । तत्र कुण्डिनपुरे रुक्मिनामा राजा राज्यं करोति स्म । स नारदोऽपि तस्य राजसभायां प्राप्तः । तदा रुक्मिनृपेण समुत्थाय भूरिसन्मान - पूर्वकं स सत्कृतः । क्षणं तत्र स्थित्वा स तस्यान्तःपुरे जगाम । तत्र रुक्मिनृपस्वस्रा॰ कुमारिकया रुक्मिण्यापि बह्वादरेण स पूजितः, तदा सन्तुष्टोऽसौ नारदस्तस्याः पुरः श्रीकृष्णस्य सद्गुणान् वर्णयामास । एवं कृष्णगुणान् श्रुत्वा