________________
१६० • सुलभ-चरित्राणि उन्मीलन्ति महर्द्धयः कलयति ध्वंसं च यत्कर्मणाम्, स्वाधीनं त्रिदिवं करोति चपलं श्लाध्यं तपस्तन्न किम् ॥३॥ सो अ तवो कायव्वो, जेण मणो अमंगुलं न चिंतेइ । जेण न इंदियहाणी, जेण य जोगा न हायंति ॥४॥
एवं प्रभुमुखादेकादशीतपोमाहत्म्यं श्रुत्वा श्रीकृष्णो निजाग्रमहीषीभिः सह ततःप्रभृतिभिस्तां तिथिमाराधयमास । तद् दृष्ट्वा सर्वे लोका अपि तां तिथि तपसाराधयमासुः, ताः सत्यभामादयः कृष्णाग्रमहिष्यस्तत्तप आराधयन्त्यो विहितभूरिप्रयत्नैर्देवैरपि तत्तपसः कथमपि न चालिताः ततः क्रमेण ताः सत्यभामारूक्मिण्यादयोऽष्टावप्यग्रमहिष्यो नेमिप्रभुपावें दीक्षां जगृहुः ततस्ताः सर्वा अपि निरन्तरं षष्टाष्टमादि विविधतपांसि कर्तुं प्रवृत्ताः क्रमेण च क्षीणसर्वकर्माः केवलज्ञानमवाप्य श्रीशत्रुञ्जयगिरौ गत्वाऽनशनपूर्वकं स्वायुःक्षये मुक्ति ययुः।
॥ इति सत्यभामाचरित्रं सम्पूर्णम् ॥
: अभ्यास : १. सत्यभामा किं कारेणन नारदं नादृतवती ? २. नारदेन रुक्मिणीपार्वे कस्य वर्णनं कृतम् ? ३. कृष्णस्य रुक्मिण्याः उपरि किं दृष्ट्वा अनुरागो जातः ? ४. रुक्मिराज्ञा रुक्मिणीस्वसा कृष्णाय दातुं केन कारणेन निषिद्धा ? ५. कस्याः सहकारेण रुक्मिणी कृष्णेन सह गता? ६. कृष्णेन केनोपायेन रुक्मिणी पट्टराज्ञी कृता? ७. कृष्णस्य पट्टराश्यः कति ? तासां अभिधानानी कथ्यताम् ? ८. कृष्णः भगवन्तं नेमिनाथं किं पृष्टवान् ? भगवान् किं उवाच ? ९. भगवता कस्याः तिथेः महिमा दर्शितः ?
१. नारदश्चासौ ऋषिश्च-नारदर्षिः । (वि. पू. क.) ना२६७षि ॥ २. कतिचिद् (અવ્યય) કેટલાક ૩. અહંકાર વધવાથી માણસ આ પ્રમાણે બોલે છે કે, હું તારી પાસે આવવાની ઈચ્છાવાળો કારાગ્રહમાં પડીશ (અહંકારમાં રહેલો માણસ હકીકતમાં