________________
श्रीचेल्लणामहासतीचरित्रम् • १४९ श्रेणिकभूपो महोत्सवेन तां चेल्लणां पर्यणैषीत् ।३१ अथ निजपुत्राणां मरणं निशम्य सुलसातीव विलापं चकार । परमभयकुमारस्तामनित्यभावनाभिः कोमलवचनामृतैराश्वासयामास । अथ चेल्लणाया विनयादिगुणैरतीवसन्तुष्टः श्रेणिको नृपस्तस्याः कृते ३२एकस्तम्भमावासं कारयितुं निजपुत्रमभयकुमारं समादिदेश । ततोऽभयाराधितः सुरस्तथैवैकस्तम्भमावासं सर्वर्तुफलवाटिकायुतं३३ चकार । अथ तस्मिन्नावासे वसन्ती चेल्लणाराज्ञी एकाग्रचित्ता जिनपूजां कुर्वती धर्मध्यानं करोति स्म । क्रमेण सा चेल्लणा राज्ञी शीलपालनविषये तथा दृढचित्ताभूत्, यथा जिनाधीश श्रीवीरप्रभुः सुलसाया इव तस्या अपि श्लाघां करोति स्म।
अथैकदा श्रीमहावीरः प्रभुस्तत्र राजगृहे नगरे उद्याने समवसृतः । श्रेणिकश्च चेल्लणादिपरिवारयुतो जिनवन्दनार्थमुद्याने चचाल । इतो मार्गे कमपि जिनकल्पिसाधु कायोत्सर्गस्थं चेल्लणायुतः श्रेणिकोऽवन्दत । अथ समवसरणस्थं प्रभुं वन्दित्वा श्रेणिकनृपः परिवारयुतः प्रभोधर्मदेशनां शुश्राव । ततो निजस्थाने समेत्य सन्ध्याकार्यं समाप्य नृपतिर्निशायां सुप्तः । इतो निद्राधीना चेल्लणा स्वप्नावस्थायां गतदिने मार्गे कायोत्सर्गस्थं तं साधु संस्मृत्य मुखतो जगाद, अहो ! अस्मिन् ३ कराले शीतकाले तस्य काऽवस्था भविष्यतीति । इति श्रुत्वा रुष्टो नृपः प्रातः समवसरणे समागत्य श्रीवीरप्रभुमपृच्छत्, भगवन् ! मम प्रिया सा चेल्लणा किं सती वा असती वर्तते ? भगवानुवाय, भो श्रेणिक ! सा त्वदीया चेल्लणा राज्ञी महासती वर्तते, एवं सर्वा अपि तव पत्न्यः सत्य एव सन्ति तव चेतसि च तस्या वचनतो यः सन्देहः समुत्पन्नस्तत्समाधानं शृणु, शस्तने दिनेऽत्र समागच्छता त्वया तया चेल्लणया राज्या सह कायोत्सर्गस्थो यो मुनिर्वन्दितस्तमेव मुनि संस्मृत्य तया केवलं कृपयैव स्वप्नावस्थायां जल्पितम्, अहो ! अस्मिन् कराले शीतकाले तस्य निष्प्रावरणस्य३५ मुनेः काऽवस्था भविष्यतीति । परं तस्या मनसि कोऽपि दुश्चिन्तनीयो विकारो नास्ति, एवं गतसंशयः ३६श्रेणिकभूपालो निजावासे समेत्य तां चेल्लणामधिकं सन्मानयामास। एवं श्रीवीरोक्तं धर्मं चिरमाराध्य सा महासती चेलणा कियता कालेन श्रीवीरप्रभुपावें दीक्षां गृहीत्वा क्रमेण दुस्तपं तपस्तप्त्वा केवलज्ञानमासाद्य