________________
१४८ • सुलभ-चरित्राणि समारोपणीया । इत्युक्त्वा सापि सुज्येष्ठया सममेव सुरङ्गायां प्रविष्टा, श्रेणिकस्य रथे च समारूढा । इतः सुज्येष्ठा चेलणामवदत्, मया मदीया रत्नकरण्डिका विस्मृता । अतस्तां समादायाधुनैवाहं पुनरागच्छामि, इत्युक्त्वा सा रत्नकरण्डिकामादातुं पुनरन्तःपुरमध्ये गता।
इतस्तां चेल्लणां रथाधिरूढां सुज्येष्ठामेव मन्यमानैस्तैः सुभटैः श्रेणिकाय प्रोक्तम् । हे स्वामिन् ! अत्र वैरिगृहे चिरं स्थातुं न युक्तम्, ततो रथं द्रुतं पश्चाद्वाहय तत् श्रुत्वा २ रथस्थचेल्लणायुतः श्रेणिकभूपो द्रुतं रथाश्वान् निजपुरं प्रति घोरान्धकारया सुरङ्गया वाहयामास, इतो रत्नकरण्डिकां समादाय तत्रागता सुज्येष्ठा श्रेणिकरथमप्रेक्ष्य २५व्याकुलीभूता, म्लानमुखा, स्वभगिनीवियोगपीडिता च प्रौच्चस्तरं गाढं पूत्कारं कर्तुं लग्ना । एवं सुज्येष्ठाया रुदनस्वरं श्रुत्वा तत्रागतश्चेटकभूपश्चेलणाया हरणं विज्ञाय स्वयं २९सन्ना वैरीपृष्ट गन्तुं सुरङ्गायाः पार्वे समायातः । इतस्तस्य सैन्याधिपो वैरङ्गिकाभिधो महासुभटस्तत्रागत्य चेटकं प्रत्यवदत्, हे स्वामिन् ! अहमेव तस्य वैरिणः पृष्टे गत्वा च अधुनैव तां चेल्लणां पश्चादानेष्यामि, इत्युक्त्वा स रथस्थो भूरिवेगेन श्रेणिकपृष्टे सुरङ्गायां चचाल । ततः सुरङ्गायामेव युद्धं कुर्वता तेन श्रेणिकाङ्गरक्षकाः सुलसाया द्वात्रिंशत्पुत्रा हताः।
इतः श्रेणिकनृपोऽप्यतिवेगेनाश्वौ प्रेरयन् सुरङ्गाया बहिनिःसृत्य राजगृहं प्रत्यचालीत् । वैरङ्गिकश्च ३०निष्फलीभूतो म्लानास्यः पश्चात्समायातः । अथ चेल्लणावियोगात् खिन्ना सुज्येष्ठा स्वमनोरथं चालभमाना विषयेभ्यो विरक्ता पितरमापृच्छ्य चन्दनार्यायाः समीपे प्रव्रज्यामुपाददे ।
अथ मार्गे सुज्येष्ठाया अभिधानेनाह्वयन्तं श्रेणिकं प्रति चेल्लणावदत्, स्वामिन् ! सुज्येष्ठा तु न समायाता, तत्कनिष्टा भगिनी चेल्लणाभिधानाहं समागतास्मि । तत् श्रुत्वा श्रेणिको व्याजहार, तर्हि मुधैव मम प्रयासोऽभूत् । तदा चेल्लणा जगौ, स्वामिन् ! अहमपि तस्या एव कनिष्टा भगिनी तव वल्लभा जातास्मि । तत् श्रुत्वा श्रेणिकोऽपि तस्याश्चेल्लणाया लाभादपि स्वं कृतार्थं मन्यमानः परमानन्दं प्राप्तः क्रमेण राजगृहे नगरे समायातः, सर्वेषामपि सुलसापुत्राणां च मरणं निशम्य स युगपदेव हर्षविषादाभ्यामालिङ्गितः । ततः
.