SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रीचेल्लणामहासतीचरित्रम् • १४७ नूनमयं श्रेणिको नृपो विधात्रा कस्मिंश्चिन्निवृतिदिने एव घटितः सम्भाव्यते । एवंविधं २०रूपलावण्यादिगुणगणोपेतं स्वरूपं मया कस्यापि पुरुषस्य विलोकितं नास्ति । अथाहं केनाप्युपायेनैनमेव श्रेणिकभूपं परिणेष्यामि । इति ध्यात्वा तया तस्यै दास्यै प्रोक्तम्, भो दासि ! त्वयि मम सम्पूर्णो विश्वासो वर्तते, अतस्त्वया मदीयोऽभिलाषः कस्याप्यन्यस्याग्रे न वक्तव्यः, अथ त्वमेनं चित्रपटं तस्मै वणिजे पश्चात्समर्प्य कथयस्व, अथ मम स्वामिनी सुज्येष्ठा श्रेणिकभूपं परिणेतुमिच्छति। अतस्त्वं केनाप्युपायेन तस्या मनोरथं सफलीकुरु। एवं सुज्येष्ठादिष्टा सा दासी द्रुतमभयकुमारपार्वे समागत्य तं चित्रपटं च तस्मै पश्चात् समर्प्य निजस्वामिनीमनोरथं रहसि कथयामास । तत् श्रुत्वा प्रसन्नवदनेनाभयकुमारेण प्रोक्तम्, भो दासि! नूनमहं तव स्वामिन्या मनोरथमवसरे पूरयिष्यामि । दास्यापि तदुक्तं निजस्वामिन्यै सुज्येष्ठायै ज्ञापितम् । तत् श्रुत्वा हृष्टा सुज्येष्ठापि तमवसरं विलोकमाना स्थिता । ततोऽभयकुमारेण प्रच्छन्नं तदीयान्तःपुरावधि पृथ्व्यन्तरेका सुरङ्गा२१ कारिता, निजजनकाय श्रेणिकाय च ज्ञापितम्, त्वया इतस्तृतीयेऽह्नि प्रच्छन्नमस्यां सुरङ्गायामागन्तव्यम् । तत्रागता सुज्येष्ठा च त्वां परिणेष्यति । ततस्तेन दास्यै प्रोक्तम्, त्वदीया स्वामिनी इतस्तृतीये दिनेऽस्यां सुरङ्गायामागच्छतु, तत्र स्वयमागतः श्रेणिकभूपस्त्वां निजनगरे नेष्यति, अथ परमानन्दं प्राप्तः स श्रेणिकनृपो निजाङ्गरक्षकैात्रिंशद्भिः सुलसायाः सुतैर्युतो रथारूढो निश्चितदिने सुरङ्गायां समायातः। अथ गमनोत्सुकां चलचित्तां च सुज्येष्ठां विज्ञाय चेल्लणा तामपृच्छत्, भो भगिनि ! अद्य त्वं कथं चलचित्ता विलोक्यसे ? कुत्र गमनोत्सुका जातासि ? तत् श्रुत्वा सुज्येष्ठयाऽलीकं२२ जल्पितम्, अहं तु कुत्रापि गमनोत्सुका नास्मि, परं २३तदीयहदयभावज्ञानविदग्धा चेल्लणा पुनरपि जगौ, भो भगिनि ! त्वं सत्यं कथयस्व, अद्य यावन्मया त्वत्तः किमपि २४गूढं रक्षितं नास्ति, त्वं चैवं मत्तः प्रच्छन्नं किं रक्षसि ? एवं २५सनिबंधतया पृष्टा सुज्येष्ठा तस्यै निजहृदयाभिलाषं जगौ, तत् श्रुत्वा चेल्लणावदत्, अरे भगिनि ! अहं त्वां विना क्षणमपि स्थातुं समर्था नास्मि । अतोऽहमपि त्वया २६त्वत्सार्धमेव रथे
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy