________________
१४६ • सुलभ- चरित्राणि
भावं विज्ञाभयकुमारो विहिताञ्जलिरवदत् । भो तात ! त्वं खेदं मा कुरु, अहं केनाप्युपायेन भवतां समीहितं साधयिष्यामि । एवं वैनयिक्या बुद्ध्या निजतातं सन्तोष्याभयकुमारो निजगृहे समायातः ।
१३ निजतातमनोरथपूरणाय चैकं चित्रकलाकुशलं चित्रकारं समाह्वयत्, तं च निजजनकस्य श्रेणिकनृपस्य मनोहरं स्वरूपं चित्रपट्टे चित्रयितुमादिशत्, तदाज्ञानुसारेण स चित्रकारोऽपि स्तोकैरेव दिनैरतीवसुन्दरं श्रेणिकनृपस्वरूपं चित्रपट्टे चित्रयित्वाऽभयकुमाराय समर्पयत् । तन्मनोहरं चित्रितस्वरूपं विलोक्य सन्तुष्टोऽभयकुमारस्तस्मै चित्रकाराय सन्मानपुरस्सरं भूरि द्रव्यं ददौ । अथ स्वकीयवेषपरावर्तनं विधाय वण्गिवेषं च कृत्वा स वैशालीनगर्यां समायातः, तत्र च स भूपान्तःपुरनिकटे भाटकेनैकमापणं १४ जग्राह । आपणे च विविधसुगन्धिद्रव्याणि, मनोहरदर्पणान्, सुगन्धितैलानि, १५ मनोहरचीवरादीनि १६ महिलागणहृदयाकर्षणाय स्थापयामास । अथ तत्र क्रयार्थमागतानामन्तःपुरचेटीनां स्वल्पेनैव मूल्येन भूरि सुगन्धिदिव्यतैलादीनि सोऽर्पयामास । तेन सर्वा अप्यन्तःपुरदास्यस्तस्यैवापणात्तानि वस्तूनि जगृहु: । ततः कियद्दिनानन्तरं सोऽभयकुमारः पटे चित्रितं तत्श्रेणिकनृपस्वरूपं निजापणद्वाराग्रे प्रलम्बितं स्थापयामास । इतो वस्तुक्रयार्थं तत्र समागता सुज्येष्ठाया दासी प्रलम्बितं तं मनोहरं चित्रपटं दृष्ट्वा प्राप्तकौतुकाऽभयकुमारं पप्रच्छ, वणिगुत्तम ! कस्येदं मनोहरं स्वरूपं विद्यते ? अभयेनोक्तम् इदं हि मदीयस्वामिनः श्रेणिकभूपस्य, स्वरूपमालेखितं वर्तते ।
I
ततो गृहीतसुगन्धिद्रव्यजाता सा दासी सुज्येष्ठायाः समीपे समेत्य १७ तच्चित्रस्वरूपवार्तामकथयत् । तदा कौतुकोत्ताला १८ सा सुज्येष्ठापि तच्चित्रपट्टदर्शनातुरा दासीं प्राह । भो दासि ! विलोकनार्थं तच्चित्रपटं द्रुतं तस्य वणिजः पार्श्वात्त्वं समानय, एवं तयादिष्टा सा दास्यपि द्रुतमभयकुमारपार्श्वे समागत्य निजस्वामिन्या विलोकनार्थं तं चित्रपट्ट मार्गयामास । निजप्रयत्नस्य भावि - साफल्यं मन्यमानोऽभयकुमारोऽपि तस्यै तं चित्रपटमर्पयामास ।
अथ दास्यानीतं चित्रपटं विलोक्य प्रेमैकपरायणा १९ सुज्येष्ठा व्यचिन्तयत्,