________________
श्रीसुभद्राचरित्रम् • १४१ सविनयं प्राह, हे मातः ! भवतीभिः पूज्याभिर्यत्किञ्चिज्जल्पयते, तत्प्रमाणं, मया चेत् प्रत्युत्तरो दीयते, तदा मम शोभा न भवेत् । ततो यदि भवतीभिरादेशो दीयते तदाहं भवत्याः प्रसादान्नूनं पुरप्रतोलीकपायनुद्घाटयिष्यामि । एवंविधां ३२नम्रां विनयान्वितां च निजवधूवाचं निशम्याश्चर्यं प्राप्ता । किञ्चित् शान्ता च सा हृदये हसन्ती तिरस्कारपूर्वकं प्राह । अरे ! यद्येवं दुराचारपरापि निजात्मनि सतीत्वं मन्यमानासि, तर्हि द्रुतं पुरप्रतोलीकपाटयनुद्धाटय, यथा ते शुद्धं सतीत्वं पश्यामः । एवं ३३सहास्यव्यङ्गयोक्त्यापि तस्या अनुमति समवाप्य सुभद्रया स पटह: स्पृष्टः
ततः स्नातपरिहितनिर्मलवस्त्रा सुभद्रा कौतुकार्थिश्वश्रूप्रभृतिपौरनारीगणपरिवृता, सविस्मयं नृपादिपौरखजैश्च निरीक्ष्यमाणा कूपोपकण्ठं प्राप्ता । ततस्तया पञ्चपरमेष्ठिनमस्कारं स्मृत्वा, शासनदेवीं च हृदये ध्यात्वा, आमसूत्रतन्तुभिश्चालिनी बद्ध्वा कूपे च निःक्षिप्य ततो जलमाकर्षितम् । तदा न च सूत्रतन्तवस्त्रुटिताः, न च चालिन्या बिन्दुमात्रमपि जलं गलितम् । राजादयः सर्वे लोकाश्चाश्चर्यशङ्कना कीलिता इव ३४स्तंभीभूता विस्फारितनयना विलोकमाना एव तत्र स्थिताः । तस्याः श्वश्रूरपि विलक्षीभूय ३५श्यामानना तत्सर्वं विलोकयामास।
ततो जलभृतां तां चालिनी निजहस्ते धृत्वा नरनारीगणैः परिवृता, ३६सुवासीनीभिर्गीयमानगुणा ३ सा सुभद्रा पुरप्रतोली प्रति चचाल । तत्रागत्य स्मृतपञ्चनमस्कारासौ तच्चालिनीतोऽञ्जलिना जलमादाय यावत् प्रतोलीकपाटानाच्छोटयति, तावत्तूर्णमेव द्वावपि कपाटौ स्वयमेव ताटकृत्योद्घटितौ, प्रहृष्टैः पौरगणैश्च जयजयारावपूर्वकं तुण्डुलपुष्पादिभिः सा वर्धापिता । अथैवं तया महासत्या सुभद्रया प्रतोलीत्रयकपाटास्तथैव विधिनोद्घाटिताः, ततो गगनाङ्गणस्थितया शासनदेव्या प्रकटीभूय नृपादिपौरसमक्षं सुभद्रायै प्रोक्तम्, भो वत्से ! अथैवंविधा या काचित् सतीत्वगर्वमण्डिता ललना भविष्यति, सा चतुर्थीप्रतोलकपाटावुद्घाटयतु, परमद्यापि कयापि तौ कपायवनुद्घाटितावेव तत्पुरे दृश्यते । ततस्तया शासनदेव्या लोकेभ्यः प्रोक्तम्, य कोऽप्यस्या सुभद्रायाः सत्या विरुद्धं