SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १४० • सुलभ-चरित्राणि तावन्मनागपि चतुसृणां प्रतोलीनां कपाटा नोद्धटन्ति स्म । तत् श्रुत्वा निजहृदि चमत्कृतो नृपः स्वयं तत्रागत्य प्रतोलीद्वारमुद्घाटयितुमुद्यमं करोति स्म । कृतबहुप्रयत्नोऽपि स नृपः कथमपि तदुद्घाटनसमर्थो न बभूव । ततः कोलाहलपराः सर्वेऽपि लोका व्याकुला बभूवुः । राजादिभिर्लोकैमिलित्वा नानाविधानि विधिना शान्तिकार्याणि कारितानी, तथापि प्रतोलीकपाटाः कथञ्चिदपि नोटिताः ततो राजापि विलक्षोऽभूत्। ____ इतो दिव्यप्रकाशपूर्वकं गगनमण्डले समागता शासनदेवी नृपादिसर्वलोकेभ्यः कथयामासा, भो लाका ! नगरमध्ये या स्त्री सती भविष्यति, सा चेदामसूत्रतन्तुनिबद्धया२७ चालिन्या कूपमध्याज्जलमाकर्ण्य, तज्जलेन प्रतोलीकपाटानाच्छोटयिष्यति, तदैव ते उद्घटिष्यन्ति, अन्यथा केनापि प्रकारेण नोद्घाटिष्यन्ति । तत् श्रुत्वा नृपेण नगरमध्ये पटहोद्घोषणा कारिता, या सती स्त्री देवोक्तविधिना पुरप्रतोलीद्वारोद्घाटनं करिष्यति, तस्यै राजा भूरिसन्मानं दास्यति । एवं विधां पटहोद्घोषणां निशम्यानेकपौरमहिला गर्वेण निजसतीत्वं मन्यमाना आमसूत्रतन्तुनिबद्धां चालिनी गृहीत्वा कूपोपकण्ठं प्राप्ताः क्रमेणैकैका सुन्दरी तथाविधविधिना तत् कार्य कर्तुं प्रवृत्ता, परं तासां सर्वासां चालिनीबद्धाः सूत्रतन्तव एव कूपोपकण्ठे त्रुटितुं लग्नाः, तदा कूपमध्यज्जलाकर्षणं तु दूरमेव स्थितम्, एवं जनैविहस्यमानानां तासां स्त्रीणां कापि तत्कार्यकरणसमर्था नाभूत् । प्रान्ते तत्कार्यकरणसोद्यमा नृपराज्योऽपि २८निष्फलीभूतप्रयत्ना जाताः । तद् दृष्ट्वा नृपयुताः सर्वेऽपि लोकाः सचिन्ता अभवन् । इतः सा सुभद्रा निजश्वश्रू प्रत्यवक्, हे मातः ! यदि भवतीभ्यो रोचेते, तदाहं पुरप्रतोलीकपाटोद्घाटनं करोमि । तत् श्रुत्वा राक्षसीव २ कोपाकुलहृदया सा जगाद, अरे ! दुष्टे ! भवत्याः सतीत्वं ३°ह्यस्तनदिने एव मया च सर्वलोकैरपि ज्ञातमस्ति, तत्कलङ्केन नूनमसन्तुष्टेव साम्प्रतं किं राजादीनामपि निजदुराचरणं दर्शयितुं समीहसे ? निजोत्तरीयेण मुखमाच्छाद्य ३१मुकीभूय गृहकोणे एव तिष्ठ, अथ विशेषत कुटुम्बं मा कलङ्कय, एवं तया निर्भत्सितापि सुभद्रा श्वश्रू प्रति
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy