________________
श्रीसुभद्राचरित्रम् • १३९ २°भालस्थमार्द्रकुङ्कमतिलकं तस्य मुनेर्ललाटे लग्नम् ।
स मुनिस्तु भिक्षां गृहीत्वा ततो निःसृतः । तदा कुङ्कमतिलकाङ्कितं मुनिभालं निरीक्ष्य छिद्रान्वेषणपरा तस्याः सुभद्रायाः श्वश्रूः साक्षाव्यन्तरीव निजभुजे उल्लालयन्ती महता स्वरेण पूत्कारं कुर्वन्ती पारिवेश्मिकजनान् मेलयामास, निजपुत्रं बुद्धदासमपि तत्र समाहूय तं तिलकाङ्कितं मुनि दर्शयामास । एवं सा तां सुभद्रां विगोपयन्ती निजतनयं प्राह, वत्स ! इदं तव वध्वायाः दुराचारं विलोकय, नूनमियं मुधैव निजात्मानं जैनधर्मपरं प्रकटयन्ती त्वां विप्रतार्यानेन साधुना सह विषयसेवनं करोति । इतस्तत्र सर्वमपि कुटुम्बं मिलितं, वधूचेष्टितं च विलोक्य कुटुम्बजनाः प्रोचुः, नूनमियं वधूः सुभद्रा २१स्वैरिणी कुलटैव विद्यते, अनयाऽऽत्मनःकुलं कलङ्कितम् । एवं कुटुम्बादिजनप्रोक्तानि वाक्यानि निशम्य २२विलक्षीभूतो बुद्धदासोऽपि तस्यां विरक्तो जातः ।
एवं कुटुम्बादिपारिवेश्मिकजनैनिजभा च विडम्ब्यमाना, तिरस्कृता च सुभद्रा दध्यौ, अहो ! साम्प्रतं मम पूर्वकृतं किमपि दुष्कृतं प्रकटीभूतं, यदिदं धर्मकार्यं कुर्वन्त्या ममोपरि मुधैवायं कलङ्कः चटितः, अथ किं करोमि ? कुत्र वा यामि ? मम धर्मस्यैव शरणमस्तु, इत्युक्तवा सा दध्यौ, यावच्छासनदेवी मदीयमेतत्कलङ्कं नोत्तारयिष्यति, तावन्मया कायोत्सर्गो न मोच्यः, इति ध्यात्वा सा सुभद्रा निश्चलमानसा२३ निष्कम्पितशरीरा निजगृहमध्ये कायोत्सर्गध्याने तस्थौ । ततस्तस्याः सत्त्वसाहसेन संतुष्टा शासनदेवी प्रकटीभूय प्राह, हे वत्से । त्वं निर्दोषासि, अथ त्वं कायोत्सर्ग पारय एवं शासनदेव्यादिष्टा सा सुभद्रा कायोत्सर्गं पारयित्वा तां देवीं प्रति प्राह, भो मातः ! यूयं मदीयमिदं कलङ्क दूरीकुरूत यथा जैनधर्मविगोपनं२४ न स्यात् ।
तत् श्रुत्वा सा शासनदेवी जगौ, भो वत्से ! त्वं खेदं मा कुरु, नूनं यथा प्रातस्तवैतत्कलङ्घ उत्तरिष्यति, तथैवाहं करिष्यामि । अथ यथाहं गगनाङ्गणस्था२५ कथयामि, तथा त्वया कर्तव्यम्, तत् श्रुत्वा सा सुभद्रा हृष्टा, शासनदेव्यप्यदृश्यतां प्राप्ता।
अथ प्रातरुत्थाय २६यावन्नगरप्रतोलीपालकाः प्रतोलीरुद्धाटयन्ति,