________________
१३८ • सुलभ-चरित्राणि सुभद्रां परिणीय स तया सह विविधभोगविलासाननुभवन् स्थितः । कियद्दिनानन्तरमुपार्जितभूरिद्रव्यः स बुद्धदासः सकलं श्वशुरादिवर्गमुत्कलाप्य स्वपुरं प्रति १३यियासुर्निजपत्न्या सुभद्रया तह ततः प्रस्थानमकरोत् । क्रमेण कुशलेन मार्गमुल्लङ्घयन् स स्वनगरे समेत्य मातापित्रोर्मिलितः । परमानन्दं प्राप्ताभ्यां मातापितृभ्यामपि गृहे महोत्सवः कृतः । सुभद्रापि निजश्वश्रूपादयोः पतित्वा निजविनयं प्रकटीचकार।
अथ द्वितीयदिने प्रातरुत्थाय सुभद्रा १४स्नानशूचीभूता जिनेन्द्रभवने गत्वा जिनबिम्बानि प्रणम्य, जैनमुनिभ्यश्चापि वन्दनं विधाय गृहे समागता । तदा श्वश्रूस्तांप्रति जगौ, वत्से ! अस्माकं कुले तु बुद्ध एव देव आराधनीयो विद्यते, अतस्त्वयाथो जिनमन्दिरादिष्वन्यत्र कुत्रापि न गन्तव्यम् । तत् श्रुत्वा वजाहतेव १५दुःखितहृदया सा सुभद्रा दध्यौ । अहो ! कपटं विधायाहमनेन भ; परिणीता, नूनमेष बौद्धधर्मानुयायी वर्तते, अथ किं कर्तव्यम् ? परं यद्भावि तद्भवतु, मया तु निजहितमेवाचरणीयम्, यतःसर्वथा स्वहितमाचरणीयम्, किं करिष्यति जनो बहुलजल्पः। विद्यतो स न हि कश्चिदुपायः, सर्वलोकपरितोषकरो यः ॥१॥
अथ श्वश्रूवचनमवगणय्य सा सुभद्रा तु जिनमन्द्रिरेषु जिनबिम्बान्येव नन्तुं प्रयाति । जैनमुनिभ्यश्च वन्दनं विदधाति । एवं तां निजाज्ञामवगणयन्ती निरीक्ष्येाभिभूता१६ श्वश्रूर्यथा तथा वदति, निरपराधां च तां विगोपयति । तद् दृष्ट्वा बुद्धदासेन सा निजप्रिया सुभद्रा पृथग्गृहे स्थापिता, तत्र च सुखं स्थिता सा जिनेन्द्रं पूजयन्ती, जैनमुनींश्च प्रतिलाभयन्ती धर्मकार्येष्वेव तत्परा बभूव इतोऽन्यदा कश्चिज्जिनकल्पो जैनसाधुर्मासक्षपणपारणे एकाक्येव तस्याः सुभद्राया गृहे भिक्षार्थं समायातः, तं मुनीन्द्रं प्रतिलाभयन्ती सुभद्रा चक्षुःपतिततृणेन पीड्यमानं विलोक्य विचारयामास, अहो अयं जिनकल्पविहारीमुनीन्द्रो निजचक्षुषस्तृणापकर्षणपराङ्मुखो१८ वर्तते, इदं च तृणं चेत्तस्य चक्षुषि स्थास्यति, तदास्य चक्षुर्गमिष्यत्येव । इति विचार्य तया सुभद्रया यतनापूर्वकं१९ लाघवेन निजजिह्यया तस्य मुनेर्नेत्रात् तृणं कर्षितं । तदैवं कुर्वन्त्याश्च तस्या