________________
१३२ • सुलभ-चरित्राणि मनोहर: केशपाशो बभूव, गगनाङ्गणे देवदुन्दुभयो नेदुः, राजादयः सर्वेऽपिः लोका आनन्दोद्गारसहितास्तां चन्दनां महाभाग्यवतीं दृष्ट्वा प्रशंसयामासुः ।
इतो लोहकारसहितस्तत्रागतो धनावहश्रेष्ठी तदाश्चर्यं दृष्ट्वा महानन्दं प्राप। भयभीता मूला तु कम्पमानशरीरा तत्रागत्य चन्दनायाः पादयोः पतिता। चन्दना तु तामुत्थाप्य नत्वा जगौ, हे मातः ! अयमुपकारस्त्वयैव मह्यं कृतोऽस्ति, अद्याप्यहं भाग्यवत्यस्मि, यत् त्रिजगत्प्रभुर्मया भवत्याः प्रसादेन पारणं कारितः। यतः-चंदना मुखथी एमज गाय, मूला तुं खरी माहरी माय । धारिणीए तो जनम ज दीध, तुजथी तो मुज कारज सीध ॥१॥ उपकारो शतानीकराय, पछी पदातितणो छे पसाय । जो मने वेचत वेश्याने हाथ, तो मुज हालत शुं अरे थात ॥२॥ पूरवभवनो धनावह बाप, जेहपसायें नाळू मुज पाप । मूलातणो घणो उपकार, मागे चंदना संयमभार ॥३॥ - हे मातर्मूले ! त्वमेव मे सत्या माता, यदि त्वं मामेवं नाऽकरिष्यस्तदाहं षण्मासोपवासिनं जगत्प्रभुं महावीरं कथमपारयिष्यम्, एवं तस्या मूलाया उपकारमेव चन्दना मन्यते स्म । यतःउपकारे उपकार तो, करे कोइ सवि लोक । अवगुणउपर गुण करे, ते अहीं विरला कोक ॥१॥
___ अथ प्रभुरपि ततोऽन्यत्र विजहार । अथ देवकृततत्सुवर्णवृष्टिग्रहणतत्परं शतानीकभूपं शासनदेवी निषिद्ध्य प्राह, भो राजन् ! त्वमेतत्सुवर्णसमूहं मा गृहाण, एष सुवर्णसमूहोऽस्याश्चन्दनबालाया दीक्षासमये व्ययीकरणयोग्यो भविष्यति, यत इयम् चन्दनबाला भगवतः केवलज्ञानप्राप्तेरनन्तरं चतुर्विधसङ्घस्थापनसमये प्रथमा साध्वी भविष्यति । इत्युक्त्वा शासनदेवी तत्सर्वं धनं