________________
श्रीचन्दनबालाचरित्रम् • १३१ भोजनार्थं ददौ । तस्याः पादयोश्च लोहनिगडे दृष्ट्वा द्रुतं तद्भञ्जनार्थं श्रेष्ठी स्वयं लोहकारमाकारयितुं बहिर्ययौ । अथ कुल्माषोपेतसूर्पहस्ताऽष्टमपारणार्थं देहल्या उम्बरोपरि निविष्टा सा चन्दना ध्यायति, यद्यस्मिन् समये कस्यापि महात्मनोऽतिथेः समागमनं भवेत्तदा तस्मै इदं कुल्माषभोजनं दत्त्वाहं पारणं करोमि । इतस्तस्या महाभाग्यवशात् भगवान् श्रीमहावीरो. गोचरचर्यायां विहरंस्तत्र समायातः । अथ तेन भगवतैवंविधोऽभिग्रहः कृतोऽस्ति, यथा
___द्रव्यतः सूर्पकोणकस्थितान् कुल्माषान, क्षेत्रतश्चैकं पादं देहल्या अन्तः एकं पादं च बहिः स्थापयित्वोम्बरोपरिस्थिता, कालतो व्यतीतायां भिक्षाचरवेलायां, भावतो राजसुता, दासत्वमापन्ना, निगडितपादा, मुण्डिमस्तका, अष्टमभक्तिका, रुदती चेत् कापि मह्यं भिक्षां दास्यति, तदाहं ग्रहीष्यामि । अथैवमभिग्रहवन्तं श्रीमहावीरं प्रभुं तत्रागतं वीक्ष्य चन्दना स्वचित्तेऽत्यन्तं हृष्टा भिक्षार्थे निमन्त्रयामास ।
तदा भगवानपि तस्या रोदनं विना किञ्चिन्यूनं स्वाभिग्रहं मत्वा भिक्षामनादाय यावत्पश्चाद्यातुं प्रवृत्तस्तावच्चन्दना खिन्नहृदयेति दध्यौ, अहो ! अस्मिन् समये समायातोऽपि भगवान् मदीयाभाग्यवशतो मया दीयमानामपि भिक्षां न गृह्णाति, इति ध्यायन्त्यास्तस्या नयनाभ्यामश्रूणि सरितुं लग्नानि । एवं तां रुदतीं दृष्ट्वा निजाभिग्रहं सम्पूर्ण विज्ञाय तस्याश्चन्दनाया हस्ततो भगवान् तत्कुल्माषभिक्षां लाति स्म।
यदुक्तम्पृथ्वीनाथसुता ३४भुजिष्यचरिता जञ्जीरिता मुण्डिता, ३५क्षुत्क्षामा रुदती विधाय पदयोरन्तर्गतां देहलीम् । कुल्माषान् प्रहरद्धयव्यपगमे सूर्पस्य कोणस्थितान्, दद्यात् पारणके तदा भगवतः सोऽयं महाभिग्रहः ॥१॥
एवं यदा प्रभुणा भिक्षा गृहीता तदैव तत्र देवैरभ्येत्य द्वादशकोटीस्वर्णवृष्टिः कृता, तस्या लोहनिगडे स्वर्णशृङ्खलाभूते, मस्तके च तस्या