________________
श्रीचन्दनबालाचरित्रम् • १३३
धनावह श्रेष्ठिने समर्प्य स्वस्थाने गता । ततो दीक्षामनोरथतत्परा सा चन्दनबालापि धर्मकार्याणि कुर्वाणा सुखेन तस्य धनावह श्रेष्ठिन गृहे स्थिता निजं समयं गमयति । इतः कियत्कालानन्तरं भगवान् महावीरोऽपि सर्वकर्मक्षयात्केवलज्ञानं प्राप । तदैव सा चन्दनबालापि तत्र समेत्य प्रभुं प्रणम्य संयमं ययाचे । ततः श्री वीरप्रभुणानुमोदिता सा पूर्वं देवैः वृष्टां सर्वामपि श्रियं सप्तसु क्षेत्रेषु व्ययित्वा शुभभावनापरा दीक्षां जग्राह । अथैकदा श्रीमहावीरप्रभुः कौशाम्ब्युद्याने समवासार्षीत् । तदा तत्रानेके देवाः, नृपाः साधवः, साध्व्यः, श्रावकाः, श्राविकाश्च धर्मं श्रोतुं समाजग्मुः । तदा प्रभौ धर्ममुपदिशति चरमपौरुषीव्याख्यानावसरे निजमूलविमानस्थौ चन्द्रसूर्यावपि प्रभोर्वन्दनार्थं समायातौ ।
तदा सन्ध्यां पतितां विज्ञाय बहुश्रुता सा चन्दना साध्वी तु ततः समवसरणतः समुत्थाय पुरमध्ये निजोपाश्रये गता । समागतसूर्यविमानप्रकाशेन सन्ध्यावेलामजानन्ती मृगावती तत्रैव समवसरणे स्थिता । इतस्तयोश्चन्द्रसूर्ययोस्ततः स्वस्थाने गतयोस्तत्रान्धकारं व्याप्तं निरीक्ष्य निजप्रमादं निन्दन्ती मृगावती तु द्रुतं समुत्थायोपाश्रये ययौ । तत्र प्रवर्तिन्या तया चन्दनया तु तदा पौरुषीं भणित्वा संस्तारः ३६ कृतोऽभूत् । मृगावती तु स्वकृतं प्रमादं निन्दन्ती, तदर्थं मिथ्यादुष्कृतं च ददाना सुप्तायाश्चन्दनायाः प्रवर्तिन्याश्चरणौ वाहयामास । चन्दनापि तां समागतां विज्ञाय तस्यै ३७ उपलाम्भं यच्छति स्म भो महाभागे ! तव कुलीनाया रात्रिगमनरूपम् एवंविधप्रमादाचरणं युक्तं न मृगावती तु तदुपालम्भं श्रुत्वा निजापराधार्थं पुनः पुनस्तां क्षमयामास । ततो द्रुतं सा चन्दनासाध्वी तु निद्रां प्राप्ता । मृगावती तु तच्चरणौ संवाहयन्ती निजात्मनिन्दापरा क्षपक श्रेण्यारूढा केवलज्ञानं प्राप्ता ।
इतस्तत्राऽऽपतन्तं कृष्णं सर्पं स्वज्ञानेन विलोक्य मृगावती निद्राधीनायाश्चन्दनाया हस्तमुत्पाट्यन्यत्र मुमोच । तत्स्पर्शतो जागरिता रुष्टा चन्दना तां मृगावतीं जगौ, अरे त्वमुत्तिष्ठ, इतः स्थानादयन्त्र गच्छ त्वया मदीयो हस्तः कथमुत्पाटितः ? तदा क्षमायाचनपरया मृगावत्योक्तम्, भो महाभाग्यवति ! मदीयापराधं यूयं क्षमध्वम्, किञ्चात्र सर्पमागच्छन्तं विज्ञायैव मया पूज्याया