________________
श्रीचन्दनबालाचरित्रम् • १२९ ज्ञायते, यदयं श्रेष्ठी मामर्धजरती निष्काश्य, वा विषादिना हत्वा अस्याः पाणिग्रहणमेव द्रुतं करिष्यति, अथाऽविलम्बेन मयेयं मारयितुं योग्या, यतःउगंती विसवेलडी, नखे न छेदी जेण । ते मूरख मूला भणे, हित न साध्युं तेण ॥१॥
इति चिन्तयन्ती सा इर्ष्याग्निना ज्वलयन्त्येव तस्थौ ।
अथ प्रातः श्रेष्ठी निजहट्टे गतः, तदा तया मूलया २८नापित आकारितः, प्रोक्तं चास्या बालाया मस्तकं त्वं मुण्डय? तदा तेन नापितेनापि तस्या मस्तकं मुण्डितम्, ततस्तत्पादयोः सा लोहनिगडे क्षिप्त्वा, तां रहो२९ ३°गुप्तापवरके चिक्षेप, तद्द्वारे च ३१तालकं ददौ ततः सा दुष्टा मूला दध्यौसोक मारणे नहि को दोष, सोक मरे थाये संतोष । सोकतणी मुज मनमां गोझ, राखे सोक ते माणस रोझ ॥१॥ गोरी पूछे सुगुण जण, उभी राजहचोक । जो कोइ जाणो तो कहो, भली सूडी के सोक ॥२॥ सूडी एकज कटुडो, सोक अणंतां कट्ठ । सोकसाल जो होय तो, थाये हयडुं भठ्ठ ॥३॥
अथापवरकस्थिता चन्दनबाला दध्यौ
अथ मम वीतराग एव शरणं, अरे ! मया पुराकृतं किमपि दुष्कर्माधुनोदयं प्राप्तं ! नगरभङ्गेऽहं जननीयुता पदातिना बन्दीकृता, मार्गे गच्छन्ती मातापि निजशीलभङ्गभयादात्मघातेन मृता, पशुरिवाहं तेन पदातिना विक्रयार्थं चतुष्पथे मुक्ता । परं किञ्चित्सुकृतोदयेन वेश्यापाशादहं रक्षिता, धनावहश्रेष्ठिना च गृहीता । अत्राप्यहमधुना मुधैवेाभिभूतया श्रेष्ठिन्यात्र बन्दीकृतास्मि । परमेतदपि सुष्ठ जातं, यदत्रैकान्तस्थानेऽहं धर्मध्यानं करिष्यामि । एवं निजहृदयमाश्वास्य सा तत्र धर्मध्यानपरा स्थिता । यत: