________________
१२८ • सुलभ-चरित्राणि विधि विफेडे विधि घडे, विधि घडीने भंजेइ । लोक नकामा तडफडे, जो विधि करे सो होइ ॥१॥
अथ तां चन्दनां दृष्ट्वा तस्य धनावहश्रेष्ठिनः प्रिया मूला स्वचेतसि चकिता, परं तदा किमपि नावदत् । श्रेष्ठिना तस्यै प्रोक्तम्, हे प्रिये ! त्वया अस्याश्चन्दनायाः पुत्रीवत् पालनं विधेयम् इति श्रुत्वा सा धृष्टा निजहृदये इति चिन्तयामास, नूनमेष मे पतिरेतां परिणेतुमेवानीतवान्, अधुना मम प्रतारणार्थ२४ पुत्रीति जल्पति, यतःपापी नवि एर्छ मन गणे, मनमेलो मुख बेटी भणे । शीआल बोली देशे दाघ, डोकरीने घरे पेठो वाघ ॥१॥ दुध नीयम लीए मंजार, उंदरसाथ करे ते आहार । एह वात कदी साची होय, पण ए बेटी नवि मार्नु कोय ॥२॥ हुं घरडी ए जोबनवेष, मुज माथे छे धोळा केश । मुजसुखतणी विणासणहार, खरे सोक आवी घरबार ॥३॥
एवं खेदं कुर्वन्ती सा मूला निजहृदि विचारयामास, अधुनाहं यत्किञ्चिदपि स्वामिने कथयिष्यामि, तत्तस्य नूनं न रोचिष्यते, ततोऽवसरं लब्ध्वाहमेनां चन्दनां मारयिष्यामि, इति विचिन्तयन्ती सा मूला शून्यहृदया बभूव।
अथैकदा तस्यां मूलायां २५प्रातिवेश्मिकगृहे गतायां श्रेष्ठी गृहे समायातः, तदा सा चन्दनबाला तं तातमिवासने उपावेश्य विनयपूर्वकं तत्पादौ जलेन प्रक्षालयितुं लग्ना । इतोऽकस्मात् तदैव सा मूलापि गृहमध्ये समायाता, तदा निजस्वामिपादौ प्रक्षालयन्तीं तां चन्दनबालां, च भूमौ लग्नां तदीयां वेणी निजोत्सङ्गे२६ स्थापयन्तं श्रेष्ठिनं २ वीक्ष्याग्निदग्धा सा दध्यौ, एषैवं श्रेष्ठिपादौ प्रक्षालयति, अस्या लम्बितां वेणी च श्रेष्ठी ह्येवं निजोत्सङ्गे स्थापयति, तेन नूनं