________________
श्रीचन्दनबालाचरित्रम् • १२७ मिलितैर्लोकैश्च सहास्यं पूत्कारः कृतः, यथा
ज्यां जुए त्यां नाकज नहीं, अति तेह विलखी थइ रही । काळी थइ जेसी झुंबडी२१ हसे लोक पाडे बुबडी ॥१॥ बीजी नाशे करती सांन, चाल चाल हवे जासे कान । नहीं एह मानुषी नार, छे कोइ देवीतणो अवतार ॥२॥
एवं भयभीतास्ताः सर्वा अपि वेश्यास्ततो द्रुतं २२पलाय्य स्वस्वस्थाने जग्मुः । ततो मन्दोत्साहः स पदातिकोऽन्यस्मिश्चतुष्पथे तां नीत्वा गत । इतस्तत्र स धनावहः श्रेष्ठी तां समादातुं समागात् । तदा वसुमत्या तस्मै श्रेष्ठिने पृष्टम्, भो श्रेष्ठिन् ! युष्माकं किं कुलं, किं च युष्मत्कुले क्रियते, किं यूयं ब्राह्मणाः, वा वणिजः, तत् श्रुत्वा स धनावहो जगौ, अस्माकं वणिक्कुलं, अस्मत्कुले च जिनो देवः पूज्यते, शुद्धचारित्रिणः साधवश्च सेव्यन्ते, जिनोक्तो धर्मश्च श्रूयते, जीवदया च पाल्यते, नमस्कारमहामन्त्रस्य जापश्च क्रियते, नित्यं त्रिकालगलितं जलं च २२व्याप्रियते, दानं दीयते, शुद्धं शीलं च पाल्यते, तथाहि
महामंत्र जपीये नवकार, जे मंत्रे तरीये संसार । त्रणवार पाणी गालीये, दीजे दान शील पालीये ॥१॥ तप कीजे भावना भावीये, साते क्षेत्रे धन वावीये । विदल साथे नवी खाये दही, अत्थाणानुं नामज नहीं ॥२॥
निशि भोजदन नवि कीजे माय, मधु माखण घरे कोइ न खाय ॥ ___ तत् श्रुत्वा हृष्टा वसुमती तं पदातिकं प्राह, भो पदातिक ! यदि त्वं मां विक्रेतुमिच्छसि, तदास्मै श्रेष्ठिने देहि, ततस्तेन पदातिना दीनारशतं गृहीत्वा तस्मै धनवाहश्रेष्ठिने वसुमती समर्पिता । ततः स धनावहः श्रेष्ठी तां गृहीत्वा स्वगृहे समायातः । एवं सुकर्मयोगेन सा शुभस्थाने प्राप्ता, तस्या वसुमत्याः स्वभावश्चन्दनवत् शीतलत्वात् श्रेष्ठिना चन्दनेत्यभिधानं विहितम्, यतः