________________
१२६ • सुलभ-चरित्राणि चटितमस्ति, तदिमां तूर्ण गृहाद्वहिनिष्काशय, नो चेदधुनैवाहं भूपपार्वे गत्वा सर्वमेतद्वृत्तान्तं निवेदयिष्यामि। किञ्चसोकरूपे जो आवे दासी, तोय न धारुं आपणपासी । सोकसरिखी न राखं राणी, १ सालसरिखी में पहिछाणी ॥१॥ सोकसाटे तुज कंचणकोडी, म्हारे मन ते डोळाफोळी । थोडुघणुं लेइ एहने वीको (वंचो), नहितर एहने छोडी मूको॥
एवंविधप्रियावचोबाणैर्विद्धो रणाङ्गणशूरोऽपि स पदातिकः कम्पमानकायो व्यचिन्तयत्, अहो ! १८संसारेऽपारेाकण्टकाकुला १९पाटलपुष्पकोमलापि महिला भ्रमरमिव रसलुब्धं पुरुषं निस्सारं करोति । अथैवं तया क्रुद्धया प्रियया तिरस्कृतः स पदातिको भयभीतस्तां वसुमती विक्रेतुं राजपथे निनाय । तदा तत्रानेके लोकास्तां ग्रहीतुं तत्र मिलिताः विक्रयार्थं २°वर्यां स्त्रियमागतां श्रुत्वा वेश्यासमूहोऽपि तां ग्रहीतुं तत्रायातः । रूपलवाण्यादिगुणगणोपेतां तां निरीक्ष्य मधुनः परितो मक्षिका इव लोका अपि तां वेष्टयामासुः । अथैका वृद्धा वेश्या तं पदातिकं जगौ, भो पदातिक, रत्नादि यद् द्रव्यं तव विलोक्यते तद् गृहाण, परमिमां कन्यामस्मभ्यं देहि, तत् श्रुत्वा तां वेश्यां स पदातिको जगौ, त्वं पञ्चशतं दीनाराणामर्पय, इमां च गृहाण, इति श्रुत्वा तया वेश्यया तत् प्रतिपन्नम् । ततः तया वेश्यया निजबाहुधृता सा वसुमती तां पप्रच्छ, युष्माकं किं कुलं, युष्मत्कुले कि कार्य क्रियते, यूयं किं ब्राह्मण्यः, वान्यजातीयाः, तदा सा वेश्या जगौ, तवास्मदीयकुलेन किं कार्यं ? अस्माकं गृहे वर्याणि वस्त्राणि परिधीयन्ते, ताम्बूलादिसुगन्धिवस्तूनि चर्व्यन्ते, किञ्चास्माकं गृहे यादृग् भोजनादि वर्तते, तादृग् राजभुवने भूपपत्नीभिरपि नास्वाद्यते । तत् श्रुत्वा वसुमत्या प्रोक्तम्, अथ ज्ञातं मया तव वेश्याकुलमिति । भवत्याः कुलेऽहं मरणान्तेऽपि नायास्यामि । तदा ताभिः सर्वाभिर्वेश्याभिमिलित्वा तां वसुमतीमुत्पाटयितुं बलात्कारः कृतः, परं तस्याः शीलमाहात्म्यतस्तस्या वृद्धवेश्याया नासा त्रुटिता, शरीरे च सा श्यामवर्णा बभूव,