________________
सुलभ चरित्राणि
१२४ • सुलभतस्य किमपि कारणं न ज्ञायते, ततो यदि तत्कारणं ज्ञायते तदा वरम् । तत् श्रुत्वा भद्रकपरिणामो मन्त्री प्राह, हे प्रिये ! नूनमन्नाहारं विनायं ६ प्रभुर्मृतिं गमिष्यति । अथ यः कश्चिदभिग्रहः गृहीतोऽस्ति स यथातथा ज्ञातव्य एव । मृगावत्यपि प्रभुं भिक्षामगृह्णतं ज्ञात्वा हृदि दूना तस्मै भिक्षादानार्थं बहुनुपायान् करोति स्म । एवं ते मृगावतीनन्दे मिथः प्रीतिपरे प्रभुं पारणार्थं निमन्त्रयामासतुः परं प्रभुर्यदा न किञ्चिद् गृह्णाति तदा ते उभे अपि श्राद्ध्यौ हृदि दुःखिन्यौ बभूवतुः । ततो नृपो, मन्त्री, मृगावती, नन्दा च, ते सर्वेऽपि निरन्तरं प्रभवे भिक्षां दातुमुपचक्रमिरे, परं प्रभुः कथमपि भिक्षां न गृह्णाति । ततस्तैर्मिलित्वा परस्परमिति ध्यातम्, नूनं प्रभुणा चिन्तितोऽभिग्रहोऽस्माभिज्ञातुं न शक्यते ।
,
इतश्चम्पापुर्यां दधिवाहनाभिधो राजा राज्यं करोति स्म । तेन राज्ञा पद्मावत्यभिधा चेटकभूपपुत्री परिणीता, तस्या पद्मावत्या द्वितीयं धारिणीत्यभिधानमपि प्रसिद्धमासीत् । तयोश्चन्दनबाला वसुमती चेत्यपराभिधा पुत्री बभूव, अथान्यदा तयोः शतानीकदधिवाहननृपयोः परस्परं वैरं जातम्, तेन शतानीको राजा 'प्रच्छन्नं स्वकीयसर्वसैन्ययुतः स्वपुरान्निर्गत्य चम्पापुरीं ९ वेष्टयामास । ततस्तयो रौद्रे महारणे जायमाने शतानीकस्य शतसङ्ख्येषु सुभटेषु पुर्यन्तः पतत्सु दधिवाहनो राजा निजं सर्वं राज्यं मुक्त्वा ततो नष्टः । तदा शतानीकेन भूपेन सा चम्पापुरी लुण्टिता तदैकेन १० पदिकेन तस्य दधिवाहनभूपस्य प्रिया धारिणी, वसुमतीपुत्रीयुता गृहीता । एवं स कौशाम्बीनाथस्तत्र स्वाज्ञां प्रवर्त्य स्वपुरं प्रति पश्चाद् ववले ।
तदा स पदिकोऽपि ते धारिणीवसुमत्यौ मातृपुत्र्यौ रथे समारोप्य चचाल। अथ मार्गे गच्छन् स सुभो धारिणीं जगौ त्वं मे प्रिया भव तस्यैवं कर्णकटुकं वचो निशम्य धारिणी प्राह, अरे! नराधम ! रे! पापिष्ठ ! त्वयैतत् किं प्रोक्तम् ? अहं परस्त्री अस्मि, परस्त्रीमगनेच्छयापि नरो नरकगामी भवति, यतः - स्वाधीनेऽपि कलत्रे, नीचः, परदारलम्पटो भवति । सम्पूर्णेऽपि तटाके, काकः कुम्भोदकं पिबति ॥ १ ॥