SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ [१४] ॥ श्रीचन्दनबालाचरित्रम् ॥ वितीर्ण शुद्धपात्रेषु, दानं सद्भावपूर्वकं । चन्दनाया इव श्राद्धाः, वीरे मुक्त्यै भवेद् ध्रुवम् ॥१॥ तथाहि-अस्मिन् भारते क्षेत्रे कौशाम्बीत्यभिधा पुरी वर्तते, तत्र पुर्यामनेके जिनेन्द्रप्रासादाः शोभन्ते । तत्र दानादिधर्मपरः शतानीकाख्यो राजा न्यायाध्वनारे राज्यं करोति स्म । तेन राज्ञा च चेटकनृपस्य मृगावतीनाम्नी पुत्री परिणीतासीत् । अथ तस्य शतानीकनृपस्य सुगोत्राभिधानो मन्त्रीवरो बभूव । तस्य मन्त्रिणश्च नन्दाभिधा प्रियासीत् । सा जिनशासनश्राविकया तया मृगावत्या सह मैत्री कुर्वाणा धर्मं करोति स्म । तत्रैव च नगरे धनावहनामैक: श्रेष्ठी परिवसति स्म । तस्य च श्रेष्ठिनो मूलाभिधा पत्न्यभवत् ।। इतश्च छद्मस्थः श्रीवीरजिनेन्द्रो विहरमाणः पौषकृष्णप्रतिपद्दिने तत्र नगरे समागतः । तत्र च स प्रभुरित्यभिग्रहं जग्राह । लोहनिगडनिबद्धांहिः १, मुण्डितमस्तका २, २कृतोपवासत्रया ३, रुदती ४, राजपुत्र्यपि दासीभावं प्राप्ता ५, देहल्यन्तरितैकपदा ६, निवृत्तायां भिक्षुकभिक्षावेलायां ७, सूर्पकोणस्थान् ८, कुल्माषान् ८ चेद्ददाति, तदैव मया पारणकं विधेयम्, नान्यथेति महावीरः प्रभुरभिग्रहं जग्राह । एवमभिग्रहं गृहीत्वा भिक्षाचर्यायां भ्रमतः प्रभोश्चतुर्मासी व्यतिक्रान्ता। ___ अन्येधुः स प्रभुर्भिक्षार्थं भ्रमन् कल्पद्रुरिव तस्य सुगोत्रमन्त्रिणो गृहे समागात् । तदा दुर्बलगात्रं शुद्धामपि दीयमानां भिक्षां क्वाप्यगृह्णन्तं तं प्रभु दृष्ट्वा सुगोत्रमन्त्रिपत्नी नन्दातीवहृष्टा भिक्षां दातुमभ्युत्तस्थौ । घृतक्षीरखण्डाद्याहारं ददानामपि तामतिक्रम्य प्रभुरन्यत्र गतः । तदा दूना नन्दा निजस्वामिनं प्रति प्राह, हे स्वामिन् ! अयं महावीरः प्रभुर्भिक्षां कथं न गृह्णाति ?
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy