________________
श्रीजम्बूकुमारचरित्रम् • १११ मिष्टैर्गुडमण्कैर्भोजितः, स इक्षुतो गुडोत्पत्तिं ज्ञात्वा स्वगृहे समागत्य पुष्पितं फलितं क्षेत्रमुन्मूल्येक्षुखण्डं वपति स्म । स्त्रिया वारितोऽपि न स्थितः, आत्ममतिको जातः, इक्षुक्षेत्रं तु न निष्पन्नम्, पुरातनमपि धान्यं गतम्, मनसि पश्चात्तापं कृतवान्, मिष्टभोजनाशया पुरातनमपि गतं तद्वत् हे प्राणवल्लभ ! त्वमपि पश्चात्तापं प्राप्स्यसि, प्राप्तं सुखं मुक्त्वाधिकस्य वाञ्छा न कर्तव्या ।
॥ इति बगपामरदृष्टान्तः ॥४॥ जम्बूकुमारः कथयति, हे प्रिये ! यत्त्वयोक्तम् तत्सत्यम्, परं ये ३६ऐहिकसुखाभिलाषिणस्ते दुःखं प्राप्नुवन्ति, ज्ञानात्परं धनं न, समतासदृशं सुखं न, जीवितसममाशीर्वचनं न, लोभसदृशं दुःखं न, आशासदृशं बन्धनं न, स्त्रीसदृशं च जालबन्धनं न वर्तते यस्तास्तु स्त्रीष्वतीवलोभवान् स ३ वायस इवानर्थं प्राप्नोति. स्त्रिया पृष्टम्, कोऽयं वायसः ? जम्बूकुमारः कथयति
____ भृगुकच्छे रेवानदीतीरे एको गजो मृतः, तत्र बहवः काका मिलिताः सन्ति, गमनागमनं च कुर्वन्ति, यथा सत्रशालायां द्विजा मिलन्ति, तद्वत्तत्र वायसा मिलिताः सन्ति, तत्रैको वायसो मृतगजकलेवरस्याऽवमद्वारे३८ प्रविष्टः तत्रैव च स तिष्ठत्यामिषलम्पटः, तत्र ग्रीष्मकाले द्वारं मिलितम्, काकस्तु तत्रैव स्थितः, वर्षाकाले तद्गजकलेवरं पानीयप्रवाहेण वाहितम्, अवमद्वारविकसनात्स वराको निःसृत, चतुर्दिा पानीयपूरं विलोकयन् तत्रैव मरणमापन्नः, अत्रोपनयःमृतगजकलेवरतुल्या:३९ कामिन्यः, विषयी नरो वायसतुल्यः, स भवजले ब्रुडति, एवं बहुलोभेन शोकं प्राप्नोति।
॥ इति वायसदृष्टान्त प्रथमस्त्रीकथा ॥ अथ द्वितीया पद्यश्रीः कथयति - हे स्वामिन्नतिलोभेन वानर इव नरो दुःखं प्राप्नोति, प्रभवचौरः कथयति तं वानरदृष्टान्तं कथय, पद्मश्रीः कथयति ।
एकस्मिन् वने कपियुगं वसति सुखेन च तिष्ठति, एकस्मिन् दिने देवाधिष्ठिते जलहृदे स वानरः पतितः, मानवरूपं च प्राप्तः, वानर्यपि पतिता स्त्रीरूपा जाता वानरेणोक्तमेकवारं हृदे पतनेन मनुष्यत्वं प्राप्तम्, द्वितीयवारं