________________
११० • सुलभ-चरित्राणि प्रभवेण पृष्टम्, कोऽसौ महेश्वरदत्तः ? जम्बू प्राह,
__विजयपुरे नगरे महेश्वरदत्तः श्रेष्ठी, तस्य महेश्वरनामा पुत्रः, मरण वेलायां महेश्वरदत्तेनोक्तम्, मम श्राद्धदिने एकं महिषं हत्वा ३१तदीयेनामिषेण सर्वोऽपि परिजनः पोषितव्यः, स मृतः, पुत्रेण पितृवचनं धारितम् । स मृत्वा वनमध्ये महिषो जातः, महेश्वरमाता गृहमोहेन मृत्वा गृहे कुकुरी जाता । एवं दैवयोगात्स एव महिष आनीतः, अथ महेश्वरस्य स्त्री कुलटा, तया सह रममाणो जारपुरुषो महेश्वरेण मारितः, स मृत्वा तद्गृहे पुत्रत्वेनोत्पन्नः, स लाल्यमानोऽस्ति, स महिषो मारितः, कुटुम्बेन तन्मांसं भक्षितम्, एतस्मिन्प्रस्तावे श्रीधर्मघोषनामा मुनिर्गोचर्यां तत्रागतः, तद्गृहचरितं ज्ञानेन ज्ञात्वा भणितम्
मारितो बल्लभो जातः, पिता पुत्रेण भक्षितः । जननी ताड्यते सेय-महो मोहविजृम्भितम् ॥१॥
एवं श्लोकं श्रुत्वा महेश्वरेणोक्तम्, स्वामिन् किमेतत् ? साधुना सर्वमपि कथितं स न मन्यते, कुकुरीपाश्र्वान्निधानदर्शनेन प्रत्यय३२ उत्पादितः, ततो महेश्वरः श्राद्धं मुक्त्वा श्राद्धो जातः, कुर्कुर्यपि जातिस्मरणं प्राप्य मिथ्यात्वं त्यक्त्वा स्वर्गं गता । अतो हे प्रभव ! पुत्रेण का सिद्धिः ? इति महेश्वरदत्तदृष्टान्तस्तृतीयः ॥३॥
प्रभवः प्राह, हे जम्बू ! तवैतत्प्रथमं पुण्यं यन्मम जीवितदानं दत्तम्, ममायं च परिवारो यदि बन्धान्मोक्षं प्राप्नोति, तदाहमपि तव सार्थे चारित्रं ग्रहीष्यामीति निश्चयं श्रुत्वा समुद्र श्रीनामा प्रथमस्त्री भणति । हे प्रभव ! भवादृशां३३ दुष्कर्मकारिणां ३४चारित्रं घटते, दुःखिनः सुखापेक्षया चारित्रं गृह्णन्ति, परन्तु सुखिनां संयमकष्टमनिष्टम्, प्रायेण लोकाः परगृहभञ्जका भवन्ति, हे प्रभव ! यदि तव कथनादयं व्रतं ग्रहीष्यति, तर्हि हालिकस्येव स पश्चात्तापं प्राप्स्यति । प्रभवेणोक्तम्, कोऽयं हालिकः ? समुद्रश्रीः कथयति
मणुमण्डले बगनामा पामरो वसति, स कृषिकर्म करोति, ३५कोद्रवकङ्गप्रमुखं धान्यं च वपति, स एकदा पुत्र्याः श्वशुरगृहे गतः, स तत्र