SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूकुमारचरित्रम् • १०९ 1 मथुरापुर्यां कुबेरसेना वेश्या, तस्याः कुक्षावेकं युगलं जात्, एकस्य कुबेरदत्त इति, अपरस्याश्च कुबेरदत्तेति नाम प्रतिष्ठितम्, तद्युगलं मुद्रालङ्कृतं वस्त्रेण वेष्टयित्वा २६ मञ्जूषायां च निक्षिप्य यमुनाप्रवाहे प्रवाहितम्, प्रातः सा मञ्जूषा सौरीपुरं गता, द्वाभ्यां श्रेष्ठिभ्यां निष्कासिता, एकेन पुत्रो गृहीतोऽन्येन च पुत्री गृहीता, यौवनं प्राप्तौ कर्मयोगात्तयोरेव परस्परं विवाहो जातः, २७सारिपाशकक्रीडां कुर्वत्या कुबेरदत्तया पतिहस्ते मुद्रा दृष्टा, स्वकीयं भ्रातरमुपलक्ष्य विरक्ता सा संयमं जग्राह अवधिज्ञानं प्राप्ता । एतस्मिन्नवसरे कुबेरदत्तः कार्यार्थं मथुरां गतः, कुबेरसेनया मात्रा सार्धं च लग्नः एकः पुत्रो जातः, २८ कुबेरदत्तासाध्व्या ज्ञानेन ज्ञातम्, महाऽनर्थो जायते । तत्प्रतिबोधार्थं सा तत्रागत्य वेश्यागृहे समागता । रोदनं कुर्वतो बालस्य पार्श्वे आगता, साध्वी कथयति रे बालक ! कथं रोदिषि ? मौनं गृहाण, त्वं ममाभीष्टोऽसि त्वया सार्द्धं मम षट् सम्बन्धा वर्त्तन्त, त्वं मम पुत्रः १ त्वं मम भ्रातृपुत्रः २ त्वं मम बन्धुः ३ त्वं देवरः ४ त्वं मम पितृभ्राता ५ त्वं मम पौत्रः ६ एवं षट् सम्बन्धाः पुनर्हे वत्स ! तव जनकेनापि सार्धं मम षट् सम्बन्धाः, स मम पतिः १ मम पिता २ मम बन्धुः ३ मम ज्येष्ठः ४ मम श्वसुरः ५ मम पुत्रश्च ६ एवं तव मात्रापि सार्धं षट् सम्बन्धाः, सा मम भ्रातृजाया १ मम सपत्नी २ मम माता ३ मम श्वश्रूः ४ मम वधूः ५ मम वृद्धमाता च ६. इति साध्वीवचनं श्रुत्वा पूर्वस्वरूपं ज्ञात्वा कुबेरसेनया व्रतं गृहीतम् भवपारं च प्राप्ता । एवं हे प्रभव ! अस्मिन् संसारेऽनन्तश- सम्बन्धा जाताः, कस्य कः ? अतो धर्मो एव परमबन्धुः । इत्यष्टादशसम्बन्धदृष्टान्तः, प्रभवः पुनरपि कथयति, हे जम्बू ! त्वया यदुक्तं परं तत्सत्यम्, अपुत्रस्य गतिर्नास्ति, स्वर्गो नैव च नैव च । तस्मात्पुत्रमुखं दृष्ट्वा, स्वर्गं गच्छति मानवः ॥१॥ इति पुराणवाक्यं, अतो भोगान् भुङ्क्त्वा सुतं गृहे स्थापयित्वा, संयमे मनो रक्ष | जम्बूः प्राह, न हि सुतेन २९ सुगतिकुगत्योर्विपर्ययः, ३० सांसारिकजीवानां केवलं मोहभ्रम एवायाम्, यथा महेश्वरदत्तस्य पुत्रः कार्ये नागतः,
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy