________________
१०८ • सुलभ-चरित्राणि तलोद्घाटिन्यवस्वापिन्यौ विद्ये, अर्पयैकां त्वदीयां स्तम्भिनी विद्यां, जम्बूकुमारेणोक्तम् ममैका धर्मकला महती विद्यास्ति, अपरा सर्व अपि कुविद्याः,२० अहं तृणवद्भोगानपहाय व्रतं प्रातर्ग्रहीष्यामि, इमे भोगा २१मधुबिन्दूपमाः, प्रभवेणोक्तम् मधुबिन्दुदृष्टान्तं मे कथय, जम्बूकुमारः कथयति
___ एकस्मिन्नरण्ये सार्थभ्रष्टः कश्चिन्नरो वने परिभ्रमति, एतस्मिन्नवसरे आरण्यो२२ हस्ती हननाय सन्मुखं धावितः, स प्रणष्टः, हस्ती पश्चाल्लानः, अग्रे गत्वा गजभयात् कूपमध्ये स्थितां वटशाखामाश्रित्य लम्बायमानः स्थितः, तस्याधस्ताद्विकिसतमुखौ द्वावजगरौ वर्तते । कूपकस्य चतुर्यु पार्वेषु चत्वारो लम्बकाया:२३ स्थिताः सन्ति, शाखायां रसपूरितो मधुमण्डपो वर्तते । द्वौ मूषको तां शाखां कर्त्तयतः, मधुमण्डपान्निर्गता मक्षिकास्तं दशन्ति, एवं कष्टमापन्नः स मूढश्चिरकालेन मधुबिन्दुं मुखे प्राप्य तदास्वादसुखितस्तत्रास्ते । एतस्मिन्नवसरे कश्चिद्विद्याधरः समागतः, तेनोक्तम् अस्मिन् विमाने समागच्छ, दुःखानिष्कासयामि, मूल् वक्ति, क्षणं यावत्प्रतीक्षस्व, एकं बिन्दुमास्वाद्यागच्छामि, स विद्याधरो गतः, मूर्को दुःखं प्राप्तः, एवं हे प्रभव ! मधुबिन्दु सदृशोऽयं विषयविपाकः, अत्रोपनयः
भव एव महत्यटवी, जीवो रङ्कतुल्यः, २४जरामरणावतरणरूपोऽयं कूपः, विषयजलेन पूर्णः, नरकगतितिर्यग्गतिरूपावजगरौ, कषाया विषधराः, आयुरेव वटशाखा, द्वौ पक्षौ द्वौ मूषको, मृत्युरेव गजः, विषयो मधुमण्डपस्थानीयः, तस्य स्पृहां कुर्वन्नयं जीवो रोगशोकवियोगाद्यनेकानुपद्रवान् सहते, अतो धर्म एव महत्सुखं, विद्याधरस्थानीयो गुरुः ।
॥ इति मधुबिन्दूपनयः ॥ पुनरपि प्रभवः कथयति, यौवनवयसि पुत्रकलत्रादिसकलपरिवारस्त्यक्तुं न योग्यः, जम्बूकुमारेणोक्तम् एकैकस्य जीवस्य परस्परमनन्तशः सम्बन्धो जातः, यथाऽष्टादशनातरासम्बन्धः,२५ प्रभवेणोक्तम्, तदष्टादशसम्बन्ध स्वरूपं मे कथ्यतां जम्बूः कथयति