________________
श्रीजम्बूकुमारचरित्रम् • १०७ समागतः, तत्र बहवो राजकुमाराः शस्त्राभ्यासं कुर्वन्ति, तत्रैको लोहगोलको जम्बूपार्वे समागत्य पतितः, जम्बूकुमारेण चिन्तितम्, यद्ययं यन्त्रगोलको मामलगिष्यत्तदा मनोवञ्छितं कथमभविष्यत् ? एवं ज्ञात्वा पश्चादेत्य गुरुपार्वे तेन लघुदीक्षा गृहीता, पश्चात्स गृहमागतः, पित्रोश्चरणौ प्रणम्य कथयति, अहं दीक्षां ग्रहीष्यामि, अनित्योऽयं संसारः, किमनेन कुटुम्बेन ? अहमान्तरे कुटुम्बेऽनुरक्तोऽस्मि, १२अहमौदासीन्यगृहे वत्स्यामि, विरतिमातुः सेवां करिष्यामि, योगाभ्यासो मे पिता, समता धात्री माता, १३नीरागतैवाऽभीष्टा मम भगिनी, बन्धुर्विनय एवानुयायी, विवेक एवाङ्गजः, सुमतिरेव प्राणप्रिया, ज्ञानमेवामृतं भोजनम्, सम्यक्त्वमेवाक्षयो निधिः, अस्मिन् कुटुम्बे ममानुरागः, तपस्तुरङ्गममारुह्य भावनाकवचं१४ परिधाय १५अभयदानादिकैर्मन्त्रिभिः सहितः सन्तोषसेनापतिमग्रेसरं कृत्वा संयमगुणसेनां १६सज्जीकृत्य क्षपकश्रेणिरूपया गजघट्या परिवृतो गुर्वाज्ञामेव शिरस्त्राणं१७ धृत्वा, धर्मध्यानासिना आन्तरां दुःखदायिनी मोहसेनां हनिष्यामीति पुत्रवचनं श्रुत्वा पितरौ प्राहतुः
हे पुत्र ! एकवारमष्टौ कन्याः परिणय, पश्चाव्रतमङ्गीकुरु अस्मदीयं मनोरथं पूरय इति पितृवचसा तेन पाणिग्रहणमष्टानां कन्यानां कृतम्, परं मनसा निर्विकारः, एकैकया कन्यया नवनवकोट्यः स्वर्णानामानीताः, अष्टौ कोट्यऽष्टकन्यानां १८मातुलपक्षत आगताः, एका कोटिर्जम्बूकुमारस्य मातुलपक्षतः, एवमेकाशीतिकोट्यः स्वर्णानाम्, अष्टादशकोट्यः स्वगृहस्थाः, एवं नवनवतिकोटिस्वर्णानामधिपतिर्जम्बूकुमारो रङ्गशालायां रात्रौ स्त्रीभिः सार्धं स्थितः किन्तु न स रागदृष्ट्या विलोकयति, न वचनेनापि सन्तोषयति, सरागवचनैश्चालितोऽपि न चलति, तस्मिन्नवसरे प्रभवनामा चौरो जम्बूगृहे समागतः, पञ्चशतचौरपरिवृतः काञ्चनकोटि गृह्णाति स्म । ग्रन्थीन् बद्ध्वा मस्तके लात्वा ते यावन्निगच्छन्ति तावज्जम्बूकुमारेण स्मृतनमस्कारमन्त्रमाहात्म्यात्सर्वेऽपि स्तम्भिताः १९भित्तिलिखितचित्राणीव स्थिताः, तदा प्रभवेणोक्तम्, हे जम्बूकुमार! त्वं जीवदयाप्रतिपालकोऽसि, अभयदानात्परमन्यत्पुण्यं नास्ति, प्रातःकाले श्रेणिकः सर्वानप्यस्मान्, मारयिष्यति । अतो मुञ्च मुञ्चास्मान्, गृहाण मदीये