________________
१०० • सुलभ-चरित्राणि यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा, यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महानादीप्ते भुवने च कूपखननं प्रत्युद्यमः कीदृशः ॥५७॥ दुःखं स्त्रीकुक्षिमध्ये प्रथममिह भवेद्गर्भवासे नराणाम्, बालत्वे चापि दुःखं १मललुलितवपुःस्त्रीपयः८२पानमिश्रम् । तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः, संसारेरेमनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् ॥५८॥ निर्द्रव्यो धनचिन्तया धनपतिस्तद्रक्षणे चाकुलो, निःस्त्रीकस्तदुपायसङ्गतमतिः स्त्रीमानपत्येच्छया । प्राप्तस्तान्यखिलान्यपीह सततं रोगैः पराभूयते, जीवः कोऽपि कथञ्चनापि नियतं प्राय सदा दुःखितः ॥५९॥ विलम्बो नैव कर्तव्य आयुर्याति दिने दिने । न करोति यमः क्षान्ति-धर्मस्य त्वरिता गतिः ॥६०॥
इति देशनाश्रवणानन्तरं राज्ञा पृष्टम्, हे भगवन् ! मया पूर्वभवे किं कर्म कृतम् ? येन मम धर्मोऽत्र नाऽभीष्टो जातः । सचिवेन च कीदृशं कर्म कृतम् ? येनेदृशी महती ऋद्धिस्तेन प्राप्ता ? ततः केवली प्राह-पूर्वभवे युवां सुन्दरपुरन्दरनामानौ भ्रातरावभवताम् । सुन्दरस्तु मिथ्यात्वमोहितत्वादज्ञानकष्टकर्ता तापसो जातः, पुरन्दरस्तु जैनसाधुसङ्गत्या तदुपदेशानुसारेण जिनप्रासादं कारयितुं प्रारम्भं कृतवान्।
अर्द्धनिष्पन्ने च जिनप्रासादे तेनैवंविधः संशयः कृतो यन्मया बहुसहस्र-द्रव्यव्ययं कृत्वा प्रासादः कारयितुं प्रारब्धोऽस्ति । परमेतन्निपिणेन-३ मम किमपि फलं भविष्यति न वा? इति संशयकरणानन्तरं पुनस्तेन