________________
श्रीकामकुम्भकथा • ९९ तदा राज्ञा सागरदत्तमाकार्य मन्त्रिसत्कं सर्वं द्रव्यादिकं मन्त्रिणे दापितम्, ७९अन्यायकारिणस्तस्य च चौरदण्डो दत्तः, तदा दयालुना मन्त्रिणा नृपतिपादयोर्लगित्वा स जीवन्मोचितः, अथ सज्ञा वेश्याया अपि सर्वं धनादि गृहीत्वा, तत्कर्णनासिकाछेदं च कारयित्वा स्वदेशात्सा बहिनिष्कासिता, अथ मन्त्री ताभिश्चतसृभिर्जायाभिः सह दोगुन्दकदेववद्विषयसुखान्युपभुञ्जानस्तत्र कियद्दिनानि सुखेनास्थात्, अथैकदा पाश्चात्यरात्रौ स धर्मबुद्धिर्मन्त्री जागरितः सन् पापबुद्धिनृपकृतापमानादि स्मृत्वा तस्य पुण्यफलदर्शनार्थं प्रभाते निजस्त्रीभिर्युतो महता सैन्येन पृथ्वीभूषणनगरं प्रति चचाल । परचक्रमागतं श्रुत्वा पापबुद्धिनृपो गोपुरद्धाराणि दृढं विधाय नगरमध्ये एव स्थितः, तदा मन्त्रिणा नृपं प्रति दूतः प्रेषितः दूतेन चागत्य पापबुद्धिनृपायोक्तम्, हे राजन् ! मम स्वामी वदति यन्मया सार्द्ध युद्धं कुरु, नो चेन्मुखे तृणं गृहीत्वा नगरान्निर्गत्यात्रागच्छ । तत् श्रुत्वा राज्ञोक्तं प्रभाते युद्धं करिष्ये । प्रातः स पापबुद्धिर्नृपः सर्वबलेन युतो युद्धाय बहिर्निर्गतः, द्वयोः सैन्ययोयुद्धे जायमाने सति धर्मबुद्धिमन्त्री पापबुद्धिनृपं बद्ध्वा प्रोक्तवान्, हे नृप ! किं त्वं मामुपलक्षयसि ? राज्ञोक्तं हे देव ! त्वामादित्यमिव को न वेत्ति ? मन्त्रिणोक्तमेवं न, विशेषलक्षणेनोपलक्षयस्व राज्ञोक्तं नोपलक्षयामि मन्त्रिणोक्तं, सोऽहं धर्मबुद्धिस्तव धर्मफलदर्शनायागतोऽस्मि । अथ त्वं वद, किं धर्मोऽस्ति वा न ? इत्युक्त्वा मन्त्रिणा स राजा धर्मफलविषये ८० दृढीकृतो मुक्तश्च । ततस्तयोः प्रमोदः समुत्पन्नः । पापबुद्धिनृपस्यापि पुण्फलं दृष्ट्वा धर्मोपरि भावो जातः, ततो तौ द्वावपि तत्रैव नगरे सुखेन राज्यं चक्रतुः।
कियता कालेन केवलाज्ञानिमुनि वनपालमुखादुपवने समवसृतं श्रुत्वा नृपसचिवादयस्तं वन्दनार्थं समागताः, तत्र केवलिनाऽपीत्थं धर्मदेशना प्रारब्धा । "भोगे रोगभयं सुखे क्षयभयं वित्तेऽग्निभूभृद्भयम्, माने म्लानिभयं जये रिपुभयं वंशे कुयोषिद्भयम् । दास्ये स्वामिभयं गुणे खलभयं काये कृतान्ताद्भयम्, सर्वं नाम भयं भवेदिह नृणां वैराग्यमेवाऽभयम् ॥५६॥