SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ९८ • सुलभ-चरित्राणि चिन्तितम् हा ! अथ मया कथं स्वशीलं रक्षणीयं ? यतः शीलं नाम नृणां कुलोन्नतिकरं शीलं परं भूषणम्, शीलं ह्यप्रतिपाति वित्तमनघं शीलं सुगत्यावहम् । शीलं दुर्गतिनाशनं सुविपुलं शीलं यशःपावनम्, शीलं निर्वृतिहेत्वनन्तसुखदं शीलं तु कल्पद्रुमः ॥५५॥ अथ तया स्वशीलभङ्गभयादवपरके प्रविश्य कपाटानि दत्तानि । तच्छीलप्रभावाच्च तानि कथमपि न समुद्घटन्ति, अथ सा प्राक्परिणीता मन्त्रिपत्नी विनयसुन्दर्यपि श्रीदत्तकुम्भकारगृहस्थिता केनापि कामिना राजपुत्रेण हास्यादिना पराभूता स्वशीलरक्षायै तथैव स्थितास्ति । इतोऽयं ७६व्यतिकरो राजलोकैख़तः ततः स्वनगरानर्थभीतेन राज्ञा पटहोद्घोषणा कारिता । यत् यः कश्चिदेतत्कपाटत्रयमुद्घाटयिष्यति, कन्यात्रयं च वादयिष्यति तस्य राजा स्वराज्याई राजकन्यां च दास्यति । इतः स मन्त्री निजनिवासार्थं स्थानं विलोक्य भोजनं च गृहीत्वा यावत्तत्रोपवने समागतस्तावत्तेन तत्र निजभार्या न दृष्टा । तदा विह्वलः सन् स नगरमध्ये भ्रमितुं लग्नः, इतस्तेन सा पटहोद्घोषणा श्रुता, व्यतिकरं च विज्ञाय पटहं स्पृष्ट्वा बहुजनपरिवृतो मन्त्री कुम्भकारगृहे समागतः, तत्र च द्वारपार्वे समागत्य तेन पृथ्वीभूषणनगरनिर्गमनादारभ्य गम्भीरपुरप्राप्तिविनयसुन्दरीदेवकुलमोचनावधि सर्वोऽपि वृत्तान्तो गदितः तत् श्रुत्वा तूर्णं विनयसुन्दर्या कपाटावुद्घाटितौ, उपलक्षितश्च मन्त्री, ततः श्रीयुगादिदेवप्रासादे समागत्य प्रवहणचलनादारभ्य समुद्रान्तः पतनं यावत्तेन सम्बन्धः प्रोक्तः तदा रत्नवत्यापि स्वरेण स्वपतिमुपलक्ष्य कंपायवुद्घाटितौ । ततोऽसौ मन्त्री वेश्याया गृहे समागत्य ७७फलकप्राप्तितः समुद्रतरणादारभ्य तन्नगरप्राप्तिस्थानविलोकनभोजनग्रहणनिमित्तं नगरमध्यागमनं यावद्वृत्तान्तमुक्तवान् । तदा तया तृतीययापि तथैव मन्त्रिणमुपलक्ष्य कपाटयवुद्घाटितौ । एवं तिस्त्रयोऽपि भार्याः स्वपतिमासाद्य स्वस्ववृत्तान्तं मन्त्रिणे कथयामासुः, प्रमुदितेन राज्ञापि निजराज्यार्द्ध स्वकन्या च मन्त्रिणे दत्ता । अथ मन्त्रिणा राज्ञे सागरदत्तस्य वेश्यायाश्च वृत्तान्तो निवेदितः,
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy