________________
श्रीकामकुम्भकथा • ९७
पश्यामि, कन्ययोक्तमहमेव ते योग्यं वरं दर्शयामि । राक्षस्योक्तं तर्ह्यधुनैव त्वां तस्मै ददामि । ततः पूर्वसङ्केततस्तत्र मन्त्री प्रकटीबभूव ७३ राक्षस्यापि स तया सह परिणायितः, करमोचनावसरे च खट्वादिपञ्चकं तेन याचितम्, तयापि च तत्सर्वं तस्मै समर्पितम् । ततो राक्षसी क्रीडाद्यर्थमन्यत्र जगाम । तदा तया कन्यया मन्त्र्यूचे, हे स्वामिन् ! साम्प्रतमावां स्वस्थानं गच्छावः, मन्त्रिणोक्तं कथं गम्यते ? स्वपुरादिमार्गाऽपरिज्ञानात् । ततः कन्ययोक्तं साम्प्रतमावाभ्यां रत्नग्रन्थिद्वयं गृहीत्वा खट्वायां चोपविश्य श्वेतकम्बया सा हन्या, ततः सा चिन्तिते पुरे नेष्यति, यदि च कदाचिद्राक्षसी पृष्टे समागच्छेत्तदा त्वया सा रक्तकणवीरकम्बया हन्तव्या, ततः सा निःप्रभावा पश्चाद्यास्यति ।
अथैवं तयोश्चलनानन्तरं सा राक्षसी तत्र समागता । स्वस्थानं च शून्यं दृष्ट्वा हा ! मुषितास्मीति चिन्तयन्ती सा तयोः पृष्ठे धाविता, मिलिता च । मन्त्रिणा कणवीरकम्बया हता सती पश्चाज्जगाम । ततो यत्र प्राक्तने द्वे भायें, यत्र च गम्भीरपुरं पत्तनम्, तस्मिन्नेव पुरे उद्यानवनमध्ये खट्वाप्रभावान्मन्त्री समागात् । कन्यादिकं बहिर्मुक्त्वा मन्त्री स्थानविलोकनाय नगरान्तर्गतः, इतस्तत्रैका वेश्या समागता । तया तत्कन्यारूपं दृष्ट्वा चिन्तितम्, यद्येषा - ऽस्मद्गृहे समागच्छेत्तदाङ्गणे कल्पवल्येव रोपिता भवेत्, अतः केनाप्युपायेनैषा ग्राह्या । इति विमृश्य तत्पार्श्वे समागत्य सा वदति, वत्से त्वंय कस्य पत्नी ? कुतश्चागता ? क्व च तव भर्तेति पृष्टा सती सा तदग्रे यथास्थितं निजस्वरूपं जगाद । तदा कपटपाटवोपेतया वेश्यया कथितं तर्हि तु त्वं मम भ्रातृजायासि, कथमत्र स्थिता ? मन्त्री तु मद्गृहे प्राप्त:, तेन चाहं तवाकारणार्थ ७४ प्रेषितास्मि, ततस्त्वमेहि मया सार्द्धं मे मन्दिरे, ततः सा सरलस्वभावतया तदगृहे गता । नात्यन्तसरलैर्भाव्यं गत्वा पश्य वनस्पतिम् । सरलास्तत्र छिद्यन्ते, कुब्जास्तिष्ठन्ति ७५ पादपाः ॥५४॥ तया च सा निजावासे सप्तमभूमौ स्थापिता ।
अथ सा वेश्यां प्रति पृच्छति क्व मे भर्ता ? सा प्राह अत्र तव बहवो भर्त्तारः समायास्यन्ति इत्युक्त्वा तया स्वकुलाचारः प्रोक्तः, तदा तया कन्यया