________________
९६ • सुलभ-चरित्राणि श्वेताञ्जनेनोष्टिकाया नयने अञ्जनं चकार । तत्प्रभावाच्च सा दिव्यरूपा जज्ञे, तत्क्षणमेव च तयाऽऽसनं मुक्तम्, ततो मन्त्रिणा तस्यै पृष्टं का त्वं ? कस्य च सुता ? कथमेवंविधा ? किमिदं नगरं ? कुतः कारणाच्च जनरहितं शून्यम् ? इति श्रुत्वा सा कन्या निजनेत्राभ्यामश्रुपातं कुर्वन्ती प्राह भो नरपुङ्गव ! त्वमितः शीघ्रं याहि, अत्रैका राक्षसी विद्यते, सा त्वां भक्षयिष्यति । तदा मन्त्रिणा पुनरपि पृष्टम्, हे सुलोचने ! का सा राक्षसी ? इत्यादि सर्वं वृत्तान्तं त्वं स्पष्टतरं कथय, साह हे सत्पुरुष ! अस्य नगरस्य स्वामी भीमसेनो राजा, अहं च तस्य पुत्री, स मे पिता तु तापसभक्त आसीत् । एकदा कश्चित्तपस्वी मासोपवासी अस्मिन्नगरे समागतः, स च मत्पित्रा भोजनाय निमन्त्रितः, अहं च राज्ञा तस्य पिरवेषणायादिष्टा । ततोऽसौ तापसो मद्रूपं दृष्ट्वा चुक्षोभ, रात्रौ च मम समीपे समागच्छन् स ६७प्राहरिकैधृत्वा बद्धः, प्रातश्च नृपस्य समर्पितः, राज्ञा च स शूलायामारोपितः, स आर्त्तध्यानेन६८ मृत्वा राक्षसी बभूव, तया च नगरमुद्ध्वस्तं विधाय पूर्ववैरेण राजा ६९व्यापादितः, तद् दृष्ट्वा नगरलोकाः सर्वेऽपि भयभ्रान्तास्ततः ७°पलायनं चक्रुः, नगरं च शून्यं जातम् । अहं तया मोहभावतो रक्षिता । पूर्वभवस्नेहेन महामोहेन च श्वेताञ्जनेनोष्ट्रीरूपेण स्थापिता । प्रतिदिनं च राक्षसी मम सारकरणार्थमत्र समागच्छति । अतस्त्वं प्रच्छन्नो भव ? यतः सा राक्षसी सम्प्रत्येव समागमिष्यति । पुनरेकदा सा राक्षसी मया पृष्टा, हे मातरहमत्रारण्ये एकाकिनी किं करोमि ? अतस्त्वं मां मारय तयोक्तं यदि योग्यं वरमहं लप्स्ये, तदा तस्मै त्वामहं दास्यामि ।
अथ साम्प्रतं तस्यागमनवेलास्ति, सा चं कदाचिन्महां तुभ्यं दत्ते, तदा त्वयाऽस्या राक्षस्याः पाश्र्वादाकाशगामिनी विद्या, सप्रभावा खट्वा, ७१महार्घ्यरत्नपेटिका, सप्रभावे रक्तश्वेतकणवीरकम्बे,७२ दिव्यरत्नग्रन्थ्यौ च, एतानि वस्तूनि मार्गणीयानि करमोचनावसरे, इति सङ्केतं गृहीत्वैनां कृष्णांजनेन उष्ट्रिकां कृत्वा मन्त्री प्रच्छन्नः स्थितः, इतश्च मनुष्यं भक्षयामीति वदन्ती राक्षसी समागता । तया च श्वेताञ्जनेन सोष्ट्रिका कन्या चक्रे ततस्तया राक्षस्या सह वार्ता कुर्वन्त्या स्वयोग्यो वरो याचितः, तदा राक्षस्योक्तं कमपि तव योग्यं वरं न