SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीकामकुम्भकथा • ९५ स्वशीलरक्षार्थं प्रवहणादुत्तीर्य निकटस्थश्रीमदृषभदेवप्रासादमध्ये गत्वा कपाटौ दत्त्वा च स्थिता । उक्तं च तया, यदि मम शीलप्रभावः स्यात्तर्हि ममोद्घाटनं विना कपाटौ मोद्घटताम्, अथ स सागरदत्तः स्वगृहे गतः ।। धर्मबुद्धिमन्त्री तु नमस्कारप्रभावात्फलकं लब्ध्वा क्रमेण समुद्रतटं प्राप्तः, यतःजिणसासणस्स सारो, चउदसपुव्वाण जो समुद्धारो । जस्स मणे नमुक्कारो, संसारो तस्स किं कुणइ ॥४८॥ एसो मंगलनिलओ, भवविलओ सव्वसंतिजणओ य । नवकारपरममंतो, चिंतिअमित्तो सुहं देइ ॥४९॥ अपुव्वो कप्पतरू एसो, चिंतामणि अपुव्वो अ । जो झायइ सया कालं, सो पावइ सिवसुहं विउलं ॥५०॥ नवकारिक्कअक्खरो, पावं फेडेइ सत्तअयराणं । पन्नासं च पएणं, समग्गेणं तु मुक्खफलं ॥५१॥ जो गुणइ लक्खमेगं, पूएइ विहिए य जिणनमुक्कारं । तित्थयरनामगोयं, सो बंधइ नत्थि सन्देहो ॥५२॥ अट्ठेव य अट्ठसया, अट्ठसहस्सं च अट्ठकोडीओ। जो गुणइ भत्तिजुत्तो, सो पावइ सासयं ठाणं ॥५३॥ ____अथ स समुद्रतटादग्रे भ्रमन् सन्नेकं शून्यं नगरं ददर्श शनैः शनैर्नगरमध्ये प्रविशन् सोऽनेकमणिमाणिक्यरत्नविद्रुममौक्तिकस्वर्णादिविविधवस्तुक्र याणकापूर्णापणश्रेणी: सतोरणा मन्दिरधोरणीश्चर्प६ ददर्श, बाढं चमत्कृतश्च । साहसेनैकाक्येव नगरमध्ये व्रजन् स राजमन्दिरे सप्तमभूमिकोपरि गतः, तत्र खट्वोपर्येकामुष्ट्रिकां स ददर्श । तथैव तत्र स कृष्णश्वेताञ्जनभृतकूपिकाद्वयं शलाकाद्वयं च ददर्श, तद् दृष्ट्वा विस्मितः सन् स कौतुकेन
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy