________________
श्रीकामकुम्भकथा • ९१ विविधहावभावादिविलासचेष्टितैर्मन्त्रिणः क्षोभनार्थं बहव उपायाः कृताः, परं स्वदारसन्तोषव्रतधारिणो मन्त्रिणो हृदये तया मनागपि रागभावो नोत्पादित:संसारे ८ हय विहिणा, महिलारूवेण मंडियं पासं । बझंति जत्थ मुढा, जाणमाणावि बझंति ॥२९॥ तस्माद्धर्मार्थिभिस्त्याज्यं, परदारोपसेवनम् । नयन्ति परदारास्तु, नरकानेकविंशतिं ॥३०॥ भक्खणे देवदव्वस्स, परत्थीगमणेण य । सत्तमं नरयं यांति, सत्तवारा उ गोयमा ॥३१॥ - एवं मन्त्रिणं स्वहावभावविलासादिभिरप्यक्षुब्धं४९ विज्ञाय निष्फली५० भूतनिजमनोरथा सा वेश्या पश्चान्निजगृहे समागता । एवं परिवर्जितकुसङ्गस्य तस्य मन्त्रिणस्तस्मिन् सकलेऽपि नगरे प्रसिद्धिर्जाता, यतःसीलं उत्तमवित्तं, सीलं जीवाण मंगलं परमं । सील दुहग्गहरं, सीलं सुक्खाण कुलभवणं ॥३२॥ वह्निस्तस्य ५१जलायते जलनिधिः ५२कुल्यायते तत्क्षणात्, मेरुः ५३स्वल्पशिलायते मृगपतिः सद्यः ५ कुरङ्गगायते । व्यालो५५ माल्यगणायते विषरसः ५६पीयूषवर्षायते, यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥३३॥
एकदा राज्ञा तन्नगरे तटाकं खानयितुं प्रारब्धं, ततः कियद्दिवसैलिखितताम्रपत्राणि निःसृतानि । जनैश्च राज्ञे समर्पितानि, राज्ञा च तत्र लिखितलेखपरिवाचनाय तानि पण्डितेभ्यः समर्पितानि, किन्तु तत्र ५७लिप्यन्तरसद्भावात्कोऽपि तानि वाचयितुं न शक्नोति । तदा कौतुकप्रियेण राज्ञा पटहो वादितो-यथा यः कोऽप्यमून्यक्षराणि वाचयिष्यति तस्य राजा स्वीयकन्यामर्द्ध राज्यं च दास्यति, इति वाद्यमानः पटहः क्रमेण मन्त्रिगृहसमीपे समागतः । तदा