________________
९० • सुलभ चरित्राणि
सा निजसुतापदे स्थापिता यतः
-
लज्जा दया दमो धैर्यं, पुरुषालापवर्जनं । एकाकित्वपरित्यागो, नारीणां शीलरक्षणं ॥२७॥
अथ सा सती तत्रस्था स्वोचितानेवंविधान्नियमान् जग्राह, यथा भर्त्तुर्मिलनावधि भूमौ शयनीयं स्नानं न कार्यं, रक्तवस्त्राणि त्याज्यानि, पुष्पाङ्गराग विलेपनं त्याज्यं, नाऽऽस्वाद्यं ताम्बूलं, लवङ्गैलाचीजातिफलानां नियमः, शरीरमलोऽपि विभूषार्थं नापनेयः, सर्वशाकानां नियमः, दधिदुग्धपक्वान्नगुडखण्डशर्करापायसप्रभृतिसर्वसरसमाहारं न भोक्ष्ये । नीरस ४१ एवाहारो मया ग्राह्यः सदैकभक्तमेव कार्यं, महत्कार्यं विना गृहाद्बहिर्न निर्गन्तव्यं, गवाक्षेषु न स्थातव्यं लोकानां विवाहाद्यपि न वीक्षणीयं सखीभिरपि सह ४२ नर्मालापपुरुषस्त्रीश्रृङ्गारहास्यविलासनेपथ्यादिका ४३ विकथा ४४न कार्या, वैराग्यकथैव पठनीया गुणनीया च । कर्मकरादिभिः सहाप्यालापसंलापादि न कार्यम्, तर्हि अन्यपुरुषैः सह तु दूरे एव, चित्रस्था अपि पुरुषा नालोकनीया इति ।
अथ स मन्त्री तेन व्यवहारिणा सह सुखेन रत्नद्वीपं गतः, तत्र सुरपुरं नाम नगरम्, शक्रपुरंदराभिधश्च राजा । अथ तेन व्यवहारिणा प्रवहणात्सर्वक्रयाणकान्युत्तार्य ४५ वक्षारेषु क्षिप्तानि तेषां क्रयविक्रयादिसर्वव्यवसायस्तेन मन्त्रिणे समर्पित:, तेन स मन्त्रि तत्र सर्वव्यवसायं करोति, सागरदत्त व्यवहारी तु नगरान्तः स्थितगणिकायामासक्तो जातः । यतः
यौवनं धनसम्पत्तिः, प्रभुत्वमविवेकिता ४६ । एकैकमप्यनर्थाय, किं पुनस्तच्चतुष्टयम् ॥२८॥
अथ स श्रेष्ठी तु तया वेश्यया सह विषयसुखं भुनक्ति, एकदा तया वेश्यया चिन्तितम्, यदस्य श्रेष्ठिनो यो धर्मबुद्धिनामा व्यापाराधिकारी वर्तते, स यदि केनचिदप्युपायेनास्माकं गृहे समागच्छेत्तदा नो बहुद्रव्यलाभो भवेत्, यतः स एव सर्वद्रव्याधिकार्यस्ति । एवं विचार्येत्थं सञ्जितषोडशश्रृङ्गारा कपटनाटकैकपटु:४७ सा गणिका मन्त्रिणः क्षोभनार्थं समागता । तत्रागत्य तया