SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्रीकामकुम्भकथा • ८९ . _ तदनु मन्त्री राज्ञे निजगृहं सम्भाल्य सभार्योऽपि देशान्तरं गच्छन् कियदिवसैः समुद्रतटे गम्भीरं नगपुरं प्राप्तः, नगरासन्नवाटिकायां च देवकुले देवनत्यर्थं श्रीवीतरागप्रासादे प्राप्तः । तदवसरे ३ तत्रस्थजनमुखात्तेन श्रुतं यत्सागरदत्तनामा व्यवहारी पूरितयानपात्रो ३८द्वीपान्तरं प्रति गच्छन् लोकेभ्यो दानं ददाति तत् श्रुत्वा स मन्त्र्यपि निजभार्यां तत्रैव मुक्त्वा दानग्रहणार्थी समुद्रतटे समागतः, तत्र तेन दानार्थिजनानां बहुसमुदायो मिलितो दृष्टः, यतः यस्यास्ति वित्तं स नरः कुलीनः, स पण्डितः स श्रुतवान् गुणज्ञः । स एव वक्ता स च दर्शनीयः, सर्वे गुणाः काञ्चनमाश्रयन्ते ॥२५॥ इतो मन्त्रिणा सर्वलोकेभ्यो द्रव्यदानान्तरं वाहने चटितः सागरदत्तव्यवहारी दृष्टः, तेन सोऽपि दानार्थं जलमध्ये कियद्भूमि लवयित्वा तस्य वाहने चटित्वा श्रेष्ठिनः पार्श्वे दानं याचितवान्, व्यवहारिणापि तस्मै दानं दत्तम्, एवं दानं गृहीत्वा मन्त्री यावत्पश्चादागन्तुमिच्छति, तावत्सुवायुना पूरितं प्रवहणं समुद्रमध्ये दूरं गतम् । तेन स पश्चात्तटे समागन्तुं न समर्थो बभूव, प्रवहणमध्ये एव च स्थितः, अथ सागरदत्तेन व्यवहारिणा मिथः कथाप्रसङ्गेन स मन्त्री सकलकलाकलापकुशलो ज्ञातः, ततस्तेन व्यवहारिणा मन्त्रिणे पृष्टम्, त्वं लेखलेखनादिकं३९ धर्मकलाञ्च किमपि वेत्सि ? तेनोक्तं वेद्मि यतः बावत्तरिकलाकुसला, पंडियपुरिसा अपंडिया चेव । सव्वकलाणं पवरां, जे धम्मकलां न जाणंति ॥२६॥ तदा व्यवहारिणोक्तं तर्हि त्वं मम व्यापारसम्बन्धिलेखादिकार्यं कुरु । तेनापि तदङ्गीकृतं ततो व्यवहारिणापि स लेखादिकार्ये स्थापितः, एवं स तत्र सुखेन कालं गम्यति। अथ मन्त्रिणा देवकुले मुक्ता तस्य भार्या विनयसुन्दरी स्वपतिवार्तामलभमाना कुम्भकारगृहे स्थिता, कुम्भकारेणापि तस्याः पुण्यशीलमाहात्म्येन
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy