________________
८८• सुलभ-चरित्राणि स्वगृहमध्ये स भाण्डागारे स्थापितः, परितश्च खड्गखेटककरा निजसहस्रसुभटाः स्थापिताः उक्तं च तेभ्यस्तेन दिनत्रयं यावद्भवद्भिः सावधानतयाऽस्य घटस्य रक्षा विधेया, युष्माभिर्मे बान्धवरूपैः सेवकैरिदं कार्यं सावधानतया विधेयम् यतः
आतुरे३३ व्यसने प्राप्ते, दुर्भिक्षे शत्रुनिग्रहे। राजद्वारे स्मशाने च, यस्तिष्ठति स बांधवः ॥२२॥ जानीयात्प्रेषणे भृत्यान्, बान्धवान् व्यसनागमे । मित्रमापदि काले च, भार्यां च विभवक्षये ॥२३॥
अथ द्वितीयदिने तस्मिन्पुरेऽपि धर्ममाहात्म्यदर्शनाय मन्त्रिणा लकुटं प्रति प्रोक्तं कामघटं मे समानय ! एवं मन्त्रिप्रहितो लकुये राज्ञो गृहे गत्वा सर्वान् सुभयन् कुट्टयित्वा, रुधिरं वमतश्च विधाय, मूर्छाभिभूतान् कृत्वा कामघटं गृहीत्वा मन्त्रिगृहे समागतः । राजा कामघटं गतं दृष्ट्वा ३४विषण्णचेता मन्त्रिगृहे गत्वोवाच, 'भो मंत्रिन् ! तवोक्तं सर्वं सत्यं जातम्, साम्प्रतमयमनर्थः समुत्पन्नः, अतः प्रसादं कृत्वा ममैतत्सैन्यं ३५सज्जीकुरु । एवं राज्ञः बह्वाग्रहेण मन्त्री तत्र गत्वा तेषां सुभटानामुपरि प्रभावान्वितं चामरं ढालयित्वा सर्वानपि सुभयन् सज्जीकृतवान् । ततो मन्त्रिणोक्तं किं दृष्टोऽयं युष्माभिर्मम धर्मप्रभावः ? राज्ञोक्तं दृष्टः, ततो राज्ञापि धर्मोऽङ्गीकृतः, प्रोक्तं च सर्वमपि शुभं धर्मादेव भवति, अतोऽहो धर्मप्रभावो जयति, सर्वनगरलोकैरपि धर्मस्य प्रभाव एव मनसि कृतः । चिन्तितं च तै:
कीटिकासञ्चितं धान्यम्, मक्षिकासञ्चितं मधु । कृपणेन सञ्चिता लक्ष्मी-रपरैः परिभुज्यते ॥२४॥
अथैवं कियद्दिनानि यावद्राज्ञा धर्मप्रभावो मानितः, पुनरपि ३६चलचितेन राजैकदा मंत्रिणे प्रोक्तम्, भो मन्त्रिन् ! घुणाक्षरन्यायेनैकशस्तव भाग्यं फलितम्, परं नायं धर्मप्रभावः, इदं सर्वमपि पापफलमेव, अतस्त्वं द्वितीयवारं पुनरपि मम पुण्यफलं दर्शय कामघटं, चामरयुगलं, लकुटं चात्र मुक्त्वा सभार्योऽपि देशान्तरे गत्वा धनमर्जयित्वा पुनरपि यदि त्वमत्रागमिष्यसि, तदाहं तव धर्मप्रभावं मानयिष्यामि, नान्यथा, ततः परोपकारतत्परेण मन्त्रिणा तदपि मानितम् ।