________________
श्रीकामकुम्भकथा • ८७ जायमानास्ति' । तत् श्रुत्वा राज्ञोक्तं 'भो मन्त्रिन् ! त्वया मयापि सार्द्ध किं हास्यं प्रारब्धमस्ति ? यतस्तव गृहे तु साम्प्रतं स्वल्पापि भोजनसामग्री नास्ति' । तदा सचिवेनोक्तं 'हे स्वामिन् ! एकशस्तत्र पादाववधार्य विलोक्यताम्' राजा ३°सविस्तृतपरिकरस्तत्रागतः, कामपि सामग्रीमनालोक्य च ३१रोषारुणो जातः सन् चिन्तयति । यतःकोह पइढिओ देहधारिं, तिन्नि विकार करे । आप तपावें परत, पर तइ हाणि करेइ ॥१९॥ लागो कोहदवानलो, डज्झइ गुणरयणाई । उवसमजलें जो ओलवें, न सहे दुक्खसयाइं ॥२०॥ अपूर्वः कोऽपि कोपाग्निः, सज्जनस्य खलस्य च । एकस्य शाम्यति स्नेहात्, वर्द्धतेऽन्यस्य वारितः ॥२१॥
एष यदि भोजनं न दास्यति । तदा विविधकदर्थनयाहं तं विगोपयिष्यामीति चिन्तयन्मनुष्यलक्षैः परिवृतो राजा तत्र गतः, तदा तद्गृहाडम्बरं दृष्ट्वा चिन्यति, किमेषः स्वर्ग: ? किमिदं सत्यमसत्यं वा ? इति विस्मितः सन् सपरिवारः स एवंविधां दिव्यपक्वान्नादिमयां रसवती भक्षयामास । भुञ्जानः सन् स राजा पार्श्वस्थान पुरुषान् पृच्छति, भो जना ! एवंविधानि परमान्नानि युष्माभिः क्वापि दृष्टानि श्रुतानि वा? तदा सर्वैरपि नेत्युक्तम्
एवमतीवभक्त्या भोजितास्ते राजादयस्तेन सर्वेऽपि दिव्यवस्त्रैः परिधापिताः, तदनु विस्मितेन राज्ञा मन्त्री पृष्टः, भो मन्त्रिनेतावन्तो जनास्त्वया कस्य प्रसादेन भोजिताः ? मन्त्रिणोक्तम्, देवताधिष्ठितमहाप्रभाविककामघटप्रसादेन, तत् श्रुत्वा राज्ञोक्तं तं कामघटं ममार्पय । यतः शत्रुसैयादिकृतपराभववावसरे३२ स मम महोपयोगी भविष्यति, तदा मन्त्रिणोक्तमधर्मवतस्तव गृहे स सर्वथा न स्थास्यति । राज्ञोक्तमेकस्त्वमेनं ममार्पय अहमुपायेन तं स्थापयिष्यामि । चेन्न दास्यसि तर्हि प्रत्युताहं तवाऽनर्थाय भविष्यामि । तदा मन्त्रिणा स कामघटस्तस्मै समर्पितः, राज्ञाप्यतियत्नेन