________________
श्लो० ४]
एकान्त नित्याऽनित्यानामर्थक्रियाविघटनम्
१९
मित्यानामात्मादीनां देशक्रमेण कालक्रमेण वा न संभवति, यत्किंचिद्देशकालावच्छेदेनैव सकलकार्य करणसामर्थ्यात्, अन्यथा देशकालभेदेन स्वभावभेदादनित्यत्वापातात् । अथात्मादीनामर्थंTherefectsपि यत्र कुत्रचिद्यदाकदाचित्सर्वाऽर्थक्रियाकारित्वमित्यत्रापाद का भावस्तत्स्वभाववतां देशकालादीनां विलंबाच्च कार्यविलंब इति चेत् ? न, निश्चयतः क्रियान्तलनाया एव कारणताशक्तेरभ्युपगमादचेतनकालादेर्ज्ञानजननस्वभावत्वाऽयोगात् । कथं तर्हि घटज्ञानकालेन पटज्ञानोदय इति चेत् ? तत्तत्कालविशिष्टस्यैवात्मनस्तज्ज्ञानजननस्वभावत्वात् । न च विनिगमनाविरहः, कालादीनां नैश्वयिकज्ञानसम्बधाभावात् । न चैवं समवायपक्षक्षतिः, कार्यानुकृताऽन्वयव्यतिरेकप्रतियोगित्वरूपस्य कारणत्वस्य तत्रापि सत्त्वात् । ज्ञानजननशक्तिस्तु ज्ञानोत्पत्त्येवेति तत्त्वम् । तथा च तत्तत्कालभेदेमात्मनः स्वभावभेदादेकांत नित्यतापक्षो विलूनशीर्ण एव ।
अथ स्वस्य भावः स्वभावः, स चात्मत्वादिरूपः कार्यमेदाय न भिद्यते, घटज्ञानादिरूपविशेषकार्यं तु घटेन्द्रिय सन्निकर्षादिविशेषसामग्रीवशात् । अत एवोभयसामग्रीसमावेशाद् घटपटोभयसमूहालंबनमप्युदेतीति चेत् ? न, स्वस्यात्मनो भावः कार्यजननपरिणतिः । सा च घटोपयोगादिरूपा घटज्ञानादिभेदाय भिद्यते एव । सुषुप्तिकाले ज्ञानानुपपत्तिदर्शनेनोपयोगरूपव्यापारसाचिव्येनैव जीवस्य ज्ञानजनकत्वात् कारकत्वस्य सव्यापारकत्वव्याप्तत्वाच्च । तथा च घटाद्युपयोगस्वभावेनैव घटादिज्ञानं जनयत्यात्मेति जीवस्वभावभेदेनैव ज्ञानभेद इत्याहुः । किंच कारणकलापमेलकस्य कार्योपधायकत्वेऽपि तस्याऽपि वैचित्र्यात् स्वभावावैचित्र्यै का प्रत्याशा ? तस्मात् स्वभावावैचित्र्येऽप्यन्यादृशं नित्यत्वमेव तत्रास्तीति स्वाग्रहमेव गृहाण । तमेव गृह्णामीतिचेत्पथः स्मर मोचितोऽसि ततः प्राग् ।
अथ पूर्वपूर्वपरिणामानामेवोत्तरोत्तरपरिणामजननस्वभावत्वादात्मनः कूटस्थनित्यत्वमेवोचितमिति चेत् ? न, तस्य तदमेदेनैव कर्तृत्वादत एवैकस्यैव षट्कार की भावोप्यन्यत्र प्रासाधि । अथ नित्यचेतनास्वभावत्व रूपार्थक्रियाकारित्वादात्मनः कूटस्थनित्यत्वमेवोचितमनित्यचेतनायास्तु प्रधानसाध्यत्वमिति चेत् ? न चेतनायाः स्वतोनित्यत्वात्पर्यायतोऽनित्यत्वस्यै तदपक्षपातित्वात् ज्ञानकर्मफलरूपायाः स्वतंत्रप्राप्यत्वेन कर्मीभूतायाश्चेतनायास्तत्तदुपयोगपरिणत्या स्वतंत्रतयात्मनैव कर्त्रा संभवात् प्रधाने मानाभावात् । अथैवमपि द्रव्यकर्मरूपार्थक्रियाकारित्वमात्मनः कथमिति चेत् ? अर्थस्यात्मनः क्रियैव कथं तत् निश्चयतः कर्त्रतरेव क्रियाशक्तेलीनत्वात् । 'भावकर्मरूपात्मपरिणतिक्रिया अन्यत्वादुपचारात्तत्तथे 'ति चेत् तर्हि द्रव्यकर्मनिमित्तीभूतभावकर्मकर्तृत्वेनोपचारादेवात्मनो द्रव्य कर्मकर्तृत्वमिति गृहाण | प्राप्यत्वगर्भ कर्मत्वस्य परिणामविशेष एव पर्यवसानात् सर्वथा भिन्नस्य प्राप्तौ सम्बन्धाभावात् । नहि क्रियाजन्य फलशालित्वादिकं पराभिमतं कर्मत्वमपि सार्वत्रिकम्, 'घटं जानातीत्यादावेव तदभावात् । एतेना