________________
स्याद्वादरहस्यै
क्रमजनितस्फटिकरागवत् इत्यनुमानादपि पौगलिकादृष्टसिद्धिः । न च परिणामादृष्टात्पौद्गलिकाsदष्टं पौङ्गलिका दृष्टाच्च परिणामाऽदृष्टमित्यन्योन्याश्रय इति वार्य, वीजांकुरस्थल इवानाद्यन्योन्याश्रमस्यात्राऽदोषत्वात् ।
अथ मूर्त्तयोः परस्परसंक्रमसंभवात् स्फटिकादौ जपातापिच्छसंसर्गवशात् श्यामरक्तादिरूपंपरिणामो युक्तः, आत्मनस्त्वमूर्त्तत्वात्पुद्गलसंसर्गेणापि कथं विभावपरिणामः संभवीति चेत् ! न, ज्ञेयनिमित्तकोपयोगाधिरूढज्ञेयाकार संबंधस्येव कर्मनिमित्तकोपयोगाधिरूढ रागद्वेषभावस्यास्ममि निरपायत्वात् । मोहक्षोभविहीनो ह्यात्मनः परिणामः शुद्धः परानुपनीतत्वात् स एव हि चारित्रशब्दवाच्यः, अत एव सिद्धानां चारित्रं निष्कलंकम् । यथाहि ज्ञानदर्शनावरण दर्शनमोहक्षयात्तेषां शुद्धज्ञान - दर्शन - सम्यग्दर्शनानि प्रादुर्बभूवुस्तथा चारित्रमोहक्षयाच्चारित्रमिति ध्येयम् ।
१८
अत एव "नाणस्स सव्वस्त पगासणाए, अन्नाणमोहस्स विवज्जणाए । रागस्स दोसस्स य संखणं । एगतसुक्खं समवेइ मुक्खं ' ॥ [ उत्तरा० ३२ - श्लो० २] इत्यत्र सम्यग्दर्शन - ज्ञान - चारित्रैरेकांत सौख्यं दुःखलेशा कलंकितं सुखमिति व्याख्यातम् । गुणस्थानक्रमारोहेऽपि - 'अनन्ते शुद्धसम्यक्त्वचारित्रे मोहनिप्रहादिति' प्रत्यपादि । "सिद्धे णो चरित्ती णो अवरित्तो ' इत्यत्र तु 'नो' शब्दो देशचरित्रनिषेधवाचकः व्यवहारचरित्रस्य तेषामभावादन्यथा व्याख्याता तु परस्परग्रन्थविरोधकांदिशीक: कां दिशमनुसरतु ! इदमपि व्यवहारनयाभिप्रायेण । निश्चयतस्तु परमचारित्रवानेव सिद्धस्तत्रैव सर्वंगुणपारम्यविश्रुतिः । अथ पंचस्वनतर्भावात्सिद्धानां कतरच्चारित्रमस्त्विति चेत् ? पारिशेष्याद्यथाख्यातमेव तदनुमीयता, 'औया सामइए आथा सामाई - अस्स अट्ठे' इत्यादिनाऽऽत्मस्वरूपतापि चारित्रस्य बहुसमय सुप्रसिद्धेत्यधिकम स्मत्कृताध्यात्ममतपरीक्षायामध्यवसेयम् ।
तथा च स्वभावमेदेनैव तादृशधर्मयोर्जननादेकांतनित्यतापझो मूलक्षत एव । अत एव बन्ध-मोक्षयोरपि कर्मादान-सकलकर्मविप्रमोक्षलक्षणयोर्मिथ्याज्ञानवासनादुःखध्वंसरूपयोर्वा तत्पक्षेऽसंभवः । एवमेकांतानित्यरूपेपोत्यादिना दोषो विभावनीयः, क्षणिकस्य क्रमिक क्रियाकारित्वविरोधात् । [श्लो० ३ संपूर्ण ] ॥
क्रमाक्रमाभ्यां नित्यानां युज्यतेऽर्थक्रिया न हि । एकान्तक्षणिकत्वेऽपि युज्यतेऽर्थक्रिया न हि ॥४॥
क्रमाऽक्रमाभ्यामिति—अप्रच्युतानुत्पन्नस्थिरैकरूपाणां हि क्रमेण युगपदर्थक्रियाकारित्वं न घटामंटाट्यते । तथा हि-अर्थस्य = घटादेः, क्रिया = ज्ञानादिरूपा, तत्कारित्वं = तज्ञ्जनकत्वं,
सर्वथा
१ - ज्ञानस्य सर्वस्य प्रकाशनया, अज्ञानमोहस्य विषर्जनया । रागस्य द्वेषस्य च संक्षयेन; एकान्तसुखं समुपैति मोक्षम् ॥ इति संस्कृतम् । २- सिद्ध े नो चारित्रिणः नो अचारित्रिणः । ३ - आत्मा सामायिक आत्मा सामायिकस्य अर्थः ।