________________
प्रलो. ३]
एकान्तानित्यत्वपक्षदूषणम् कल्प्यते इति । ननु तथापि ध्वंसप्रतियोगितावच्छेदकरूपवत्त्वं पर्यायस्यैवानित्यत्वमस्तु, द्रव्यस्य तु कथमिति चेत् ! न, तादृशरूपवदभिन्नत्वस्यानित्यत्वस्योभयसाधारणत्वात् , अन्यथा मेदिपर्यायेष्वपि तदभावात् ।
___ अथानित्यत्वपक्षेऽपि दोषमाहुः— 'एकांतानित्यरूपेऽपी'ति-निगदसिद्धमिदम् । अयं भावः-एकांताऽनित्यस्य सत आत्मनः सुखदुःखयोर्युगपद्भोगो विरुद्धत्वादेव नेष्टः । क्रमभोगपक्षे तु क्षणिकत्वपक्षो बालतरलाक्षिकटाक्षतरलः, तत्क्षणध्वंसाधिकरणसमयस्यैव क्रमपदार्थत्वात् । क्षणिकस्य तु जातमात्रस्यैव विनाशादुत्तरक्षणाननुवृत्तेः । एवं च 'प्रवृत्तिविज्ञानोपादानमालयविज्ञानसंतान एवात्मा, स च पूर्वपूर्वविज्ञानोपादेयः प्रतिसमयोत्पदिष्णुरनित्य एवेति मतमपास्तम्, कर्तुभोंगसमयपर्यन्तमनवस्थानात्, अन्यकृतस्याऽन्येन भोगेऽतिप्रसंगात्, कालरूपसंतानकृतैक्यस्याप्यन्यसाधारण्यात् , सर्वकालानुगतातिरिक्तसंतानाभ्युपगमे फलतो नित्यात्मन एवाभ्युपगमापाताच्चेति ॥२॥ अथोभयोः पक्षयोर्दूषणांतरमुभाभ्यामनुष्टुब्भ्यामतिदेशयन्ति स्म-"पुण्यपाप" इति -
पुण्यपापे बन्धमोक्षौ न नित्यैकान्तदर्शने ।
पुण्यपापे बन्धमोक्षौ नाऽनित्यैकान्तदर्शने ॥३॥ (व्याख्या)- एकांतनित्यात्मवादिमते पुण्यपापयोरसंभवः । ते हि-"यागब्रह्महत्यादीनां क्षिप्रभंगुराणां स्वर्गनरकादिकं प्रति श्रुतिबोधितकारणतायाः फलपर्यंतव्यापारव्याप्ततया, तत्र व्यापारस्यान्यस्यासंभवात्परिशेषाददृष्टसिद्धिः। न च यागादिध्वंसेनैव निर्वाहस्तस्य फलानाश्यत्वात् फलसंतानस्य कदाचिदप्यनुपरमप्रसंगात् । नचैवमपूर्वस्यापि प्रथमस्वर्गादिनैव नाशात् फलसंतानो न निर्वहेदिति वाच्यं, तस्य चरमफलनाश्यत्वात् । चरमत्वं च स्वसमानजातीयप्रागभावासमानकालीनत्वादिकं, जातिविशेषो वा । न च ज्योतिष्टोमादिजन्यतावच्छेदिकया सांकर्य, तत्तद्वयाप्यचरमत्वस्य भिन्नस्यैव स्वीकारात् । नचाऽपूर्वोत्पत्त्यनंतरमेव फलं कुतो न भवतीति वाच्यं, वृत्तिलाभकालस्यापिनियामकत्वात् । अथ निर्व्यापारस्यैव यागादेव्यवहितत्वांशविनिर्मुक्ककारणताग्रहः संभवतीति नापूर्वसिद्धिरिति चेत् ? न, अव्यवहितपूर्वसमयावच्छेदेन कार्यवति यदभावो ज्ञायते तत्रैव कारणताबुद्धयनुदयेन तद्गर्भाया एव कारणताया युतत्वात् , कीर्तनादिनाश्यत्वेनाऽपूर्वसिद्धेश्च । तचाsदृष्टमात्मनो गुणरूपं विहितनिषिद्धक्रियाजन्यमात्मनः सर्वथाभिन्न"-इत्याहुः ।
तदसत्-स्वतन्त्रप्राप्यत्वेनात्मपरिणामरूपस्यैवादृष्टस्य कल्पयितुं युक्तत्वात् । धर्मिकल्पनातो धर्मकल्पनाया लघीयस्त्वात् । तदुपनीतप्रकृतिविशेषाऽबाधाकालपरिपाकादेव फलोदयात् । अत एव फलसंतानस्थितिः कर्मणः स्थितिबंध नाऽतिवर्तते । परिणामादृष्टजनितेन च पौद्गलिकाऽदृष्टेनैवात्मनः अनुग्रहोपघातौ संभवतः, पुद्गलस्यैवाऽन्यत्रानुग्रहोपघातकारित्वदर्शनात् । किंचात्मनः शुभाशुभपरिणामौ परसंसर्गजन्यौ, शुद्धपरिणामं तिरस्कृत्याऽऽविर्भावात् , जपातापिच्छकुसुमस
स्या. र. ३