________________
१६
स्याद्वादरहस्ये
"
यस्य शक्तचैव बोधः । न चैवमुपसर्गस्य द्योतकत्वं न स्यादिति वाच्यं, औपसंदानिकशक्तेरेव द्योतनत्वात् । न च जिपूर्वप्रत्वादिनापि शक्तत्वे विनिगमनाविरहः, धातुभिन्नार्थस्याख्यातार्थभावनायामन्वयान्युत्पत्तेर्विनिगमकत्वात् इति चेत् ? न 'नीलघटो घट' इत्यादौ शब्दाद मेदाबोधेप्यन्यस्मात्तद्बोधसंभवादन्यथा सामान्यपदानां विशेषपरत्वं कुत्रापि न स्यात् । 'विशिष्टवाचकानामि'त्यादिन्यायेन विशेष्यविशिष्टवा चकपदयोर्विशेषणांशे संभूयैकान्वयबोधजनकत्वमेव व्युत्पाद्यत' इत्यप्याहुः ।
नैयायिकदेशिनस्तु भोगत्वं चाक्षुषादिसामग्रीप्रतिबध्यतावच्छेदककुक्षिप्रविष्टतया सिद्धोजातिविशेषः । न च स्वसमवायिलौकिक विषयितया भोगान्यमानसप्रतिबन्धकतावच्छेद की भूतसुखदुःखवृत्तिजातिविशेषवदन्यमानसत्वादिकमेव मानसान्यसामग्री प्रतिबध्यतावच्छेदकं, सुखदुःखवृत्तिजादतिविशेषवत्प्रतिवध्यतावच्छेदकमपीदमेव तेन न तत्प्रविष्टतया भोगत्वसिद्धिरिति वाच्यम्, अनया दिशा साक्षात् सुखादिवृत्तिजातिः प्रतिबध्यतावच्छेदकोटौ प्रवेश्या साक्षान्मानसवृत्तिर्भोगत्वजातिर्वा स्वसमवायिलौकिकविषयतासम्बन्धेन प्रतिबन्धकतावच्छेदककोटौ प्रवेश्येत्यत्र विनिगमकाभावात् प्रागुक्तजातेर्ज्ञानत्वपर्यंत संबंधेन प्रतिबध्यतावच्छेदकत्व प्रसंगाच्चेत्याहुः । तन्मते 'सुखदुःखयो'रित्यस्य न पौनरुक्त्यम् ।
-
"
[आत्मन एकान्तभ्रुवत्वपक्षदूषणम् ]
अथ प्रकृतं प्रस्तुमः । एकांत नित्यः सन्नात्मा सुखदुःखे युगपद् भुञ्जीयात्क्रमेण वा ? नाथो विरोधात् । न द्वितीयः, स्वभावभेदेन सर्वथानित्यत्वहानेः । अथ यथा प्रदीपो घटादीन् प्रकाशयन्नपि न घटादिस्वभावस्तथा सुखदुःखे भुञ्जानोऽपि जीवो न तत्स्वभाव इति क्रमिकतभोगपक्षेऽपि न स्वभावभेद इति चेत् ? न, स्वभावो हि स्वद्रव्यगुणपर्यायानुगतं स्वरूपास्तित्वं, तच्च सादृश्यास्तित्वेनैकीभवतोप्यन्यस्माद्भेदप्रतीतिमाधत्ते । तथा चाऽऽत्मनः स्वभावभूतयोः सुखदुःखयोर्गुणयोः क्रमभोगे विभिन्न कालभोग्यत्वरूपविरुद्धधर्माध्यासात् स्वभावभेदः कस्य पाणिना पिधेयः ? प्रदीपस्य घटादिस्तु स्वद्रव्याद्यन्यतरान्यत्वान्न स्वभावः । घटपटादीनां क्रमप्रकाशे पुनरेकांत नित्यत्वं तस्यापि निरस्यमेव, विभिन्नकालीनत्वरूपविरुद्धधर्माध्यासेन प्रकाशस्वभावभेदात् । अथैवमपि ध्वंसाऽप्रतियोगित्वरूपं सर्वथा नित्यत्वमक्षतमे वेति चेत् न, मनुष्यत्वादिनैव तदध्वंसादात्मत्वादिना स नेति तु प्रागेव प्रत्यपीपदाम ।
आत्मत्वमनुष्यत्वयोरपि भेदे का प्रत्याशेति चेत् ? न, तयोरत्यंत भेदाभावेऽपि साक्षाद्ध्वंसप्रतियोगितावच्छेदकत्वस्य मनुष्यत्वादावेव प्रतोतिबलेन कल्पनात् । इदमत्र ध्येयम् - यद्यपि यत्किचिदूघटात्यंताभाववत्यजायमानया 'घटो नास्तीति प्रतीत्या तत्र घटत्वावच्छिन्नप्रतियोगिता सिध्यति । ध्वंसे तु नैवं, तथापि 'घटत्वेनायं ध्वस्तो- ध्वंसप्रतियोगी न तु मृत्त्वेनेत्यादिप्रतीत्या तत्र सा सिध्यति । अवच्छेदकता हि स्वरूपविशेषः, सा च क्वचिदतिप्रसक्तेऽपि धर्मे प्रतीतिबला