________________
प्रलो०२]
आत्माऽनित्यत्वशङ्का
[द्वितीयश्लोकावतरणिका] ननु-भवतु कदाचिद्बाह्यवस्तुनो नित्यानित्यत्वं, प्रमातुस्तु नित्यत्वमेव युक्तं, तस्याऽनित्यत्वे मानाऽभावात् । न च ज्ञानाद्यभेदात्तथात्वं, तथा सति दुःखाऽमेदादुःखध्वंसस्याप्यात्मध्वंसरूपत्वात्तदर्थिनो यमनियमादौ प्रवृत्तिर्न स्यात् । न च दुःखध्वंसत्वं-चरमदुःखध्वंसत्वमेव वा काम्यतावच्छेकं, तत्रात्मध्वंसाऽमेदज्ञाने यमादौ बलवदनिष्टाननुबन्धीष्टसाधनत्वस्य ज्ञातुमशक्यत्वात् । नचात्मत्वावच्छिन्नध्वंसत्वमेव चार्वाकादिमतप्रसिद्धमनिष्टतावच्छेदकं, विजातीयसुखत्वमेव वा काम्यतावच्छेदकमिति वाच्यं, तथापि “नित्यं विज्ञानमानन्दं ब्रह्मे" [तै०मा०] तिश्रुत्या तस्य नित्यत्वस्यैवौचित्यात् । नित्यसुखादिनैव समममेदबोधाज्जीवानामपि भावकार्यत्वावच्छिन्नं प्रत्युपादानप्रत्यक्षत्वेनैव कारणत्वाल्लाघवाज्जगद्धेतुतया सिध्यन्नित्योपादानप्रत्यक्षरूपादेवेश्वरादभेदाच्च ।
एतेन आनंदशब्दस्याजहत्पुल्लिंगतया नपुंसकत्वे लिङ्गव्यत्ययकल्पनमप्रामाणिकमितिनिरस्तम् । न च "आनंदं ब्रह्मणो रूपं तच्च मोक्षे प्रतिष्ठितमि"तिभेदबोधकश्रुतिसदभावादुपचरितार्थत्वमेव पूर्वश्रुतेरिति-वाच्यम्, 'राहोः शिर' इत्यादौ षष्ठ्या अभेदेपि दर्शनात् । अत्राभेदप्रकारकबोधाल्लक्षणैव श्रुतौ तु सा न युक्तेति चेत् ? न, सुब्विभक्तो लक्षणाऽनभ्युपगमादन्यथा व्यत्ययानुशासनवैयर्थ्यात् । अथ विभक्त्यंतरार्थे विभक्त्यंतरस्य लक्षणाया निषिद्धत्वज्ञापकं व्यत्ययानुशासनं, अत एव 'धटं जानाती'त्यादौ द्वितीयाया विषयित्वे लक्षणा ना. ऽनुपपन्ना, कृञ्योगे षष्ठ्यनुशासनं च द्वितीयाऽसाधुत्वज्ञापकम् । निष्ठादिवर्जन निष्ठायां तत्साधुत्वज्ञापकम् । कृत्ययोगे विकल्पविधान च निष्ठायां शेषषष्ठ्यसाधुत्वज्ञापकमिति चेत ? न, तथापि भेद एव षष्ठीत्यनियमात्तत्र संबंधत्वप्रकारकबोधेनाप्युपपत्तेरत आहुः-आत्मनीति
आत्मन्येकान्तनित्ये स्यान्न भोगः सुखदुखयोः । एकान्ताऽनित्यरूपेऽपि न भोगः सुखदुःखयोः ॥२॥
[भोगपदार्थसमीक्षा] आत्मन्येकान्तनित्ये'ऽभ्युपगम्यमाने' इति शेषः । सुखदुःखयोर्भोगः साक्षात्कारो न स्यात् । यद्यपि भोगपदं सुखदुःखान्यतरसाक्षात्कारे रूढ मिति पुनः सुखदुःखयोरित्युपादाने पौनरुक्त्यम् , तथापि 'विशिष्टवाचकानामि'त्यादिन्यायाभोगपदमत्र साक्षात्कारमात्रपरं दृष्टव्यम् । न च शक्यादनन्येऽर्थे कथं लक्षणा ? शक्यसंबंधाभावादिति वाच्यं, तत्राप्यभेदसंबंधस्य जागरुकत्वात् । अत एव जिधातोः 'प्रजयती'त्यादौ प्रकृष्टजये लक्षणा । ननु “संबंधितावच्छेदकभेदं विनाऽमेदग्रहो दुःशकः, 'घटो घटः' 'नीलघटो घट' इत्यादौ तदग्रहात् । अत एव प्रजयतीत्यत्र जिधातोः शक्त्योपस्थिते जयत्वावच्छिन्ने लक्षणयोपस्थितेन प्रकृष्टत्वावच्छिन्नेनैव समममेदबोधः, युगपदवृत्तिद्वयापातस्य मणिकृतामिष्टत्वात् । अस्तु वा तत्र प्रोत्तरजित्वादिना शक्यत्वात्प्रकृष्टज
१. 'विशिष्टवाचकानां पदानां सति विशेषणवाचकपदसमवधाने विशेष्यार्थमात्रपरत्वमितिन्यायात्