________________
स्याद्वादरहस्ये
तन्निरासात् । अत एव न स्थितिकाले 'घट उत्पन्नो, घटो ध्वस्त' इत्यादि प्रतीतिः । विशिष्टोत्पादध्वंसयोर्विशेषणसत्त्वविरुद्धत्वात् । न च ‘स एवायं घट' इति प्रत्यभिज्ञा क्षणिकत्वे बाधिका 'स एवायं गकार' इत्यादि प्रत्यभिज्ञाया इव तस्यास्तज्जातीयाऽभेद विषयकत्वात् । किंच नित्यस्य सतो वस्तुनः सर्वदाऽर्थक्रियाकारित्वापत्तिः, स्वतः सामर्थ्याऽसामर्थ्याभ्यां परोपकारानवकाशात् । स्वतः समर्थमपि तत्कारणान्तर सहकृतमेव कार्यमुपदधातीति चेत् ! न, कार्यानुपधानसमये सामर्थ्य मानाऽभावात् । तस्मात्कुर्वदूपस्यैव कारणत्वाद्वस्तुनो मदुक्तदूषणभारभंगुरस्य सतः क्षणविश्राम एवोचित इति ।
[क्षणिकवादनिरसनम्] तदतिजरत्तरं, विनाशस्वभावत्वेन 'क्षणिकत्वे स्थितिस्वभावत्वेन नित्यत्वस्याप्यापत्तेः । स्थितिप्रत्ययो भ्रांतो, विनाशप्रत्ययस्तु प्रमेति तु निजप्रणयिनीमनोविनोदमात्रम् । ध्वंसप्रतियोगित्वं तु यथा त्वया विधिपर्यायेन कल्प्यते तथा मया निषेधपर्यायेणाऽपीति न तत्र दोषावकाशः । वासनायाश्च ध्रुवत्वे तु नामांतरेण द्रव्यमेवाभ्युपेतवान् भवान् , कृतांतं च कोपितवान् । अधुवत्वे तु किमनयाऽजागलस्तनायमानया ! कुर्वद्रूपत्वेन तु न कारणता, तस्य प्रागपरिचयादिष्टसाधनताज्ञानबिलंबावटार्थिनो दंडादौ प्रवृत्त्यनुदयापत्तेरिति दिए ।
अथ जन्यस्य सतो नाश एव संभवी । तत्र सामान्यतः समवेतकार्यनाशं प्रति समवायिकारणनाशस्य प्रतियोगिसमवेतत्व-स्वाधिकरणत्वोभयसंबंधेन नाशवन्नाशत्वावच्छिन्नं प्रति स्वप्रतियोगिसमवेतत्वसंबेधेन नाशत्वेन हेतुता, ब्यणुकादिनाशे तु तत्तत्परमाणुसंयोगादिनाशस्य कारणत्वमित्येके । लाघवाद्र्व्यनाशत्वावच्छिन्नं प्रति विजातीयसंयोगनाशत्वेनैव हेतुत्वमुचितमिति द्रव्यनाशोऽसमवायिकारणनाशादेवेत्येकदेशिनः । तन्नेत्यन्ये-रूपादिनाशं प्रति प्रागुक्तदिशा क्लप्तायाः कारणताया एव द्रव्यनाशं प्रति साधारण्यात् । विजातीयसंयोगनाशस्य च स्वाधिकरणसमवेतत्व-स्वाधिकरणत्वोभयसंबंधेन स्वविशिष्ट प्रतियोगिकनाशत्वस्यैव कार्यत्वावच्छेदकत्वात् । परमाणुषु पूर्वपूर्वसंयोगनाशायणुकादेः क्षणिकत्वापत्तिपरिहाराय स्वप्रतियोगिजन्यत्वसंबंधेन स्वविशिष्टप्रतियोगिकनाशत्वावच्छिन्नं प्रत्येव तस्य हेतुत्वमित्यप्याहुः । घटादिनाशे च मुद्गरप्रहारादीनामपि विशिष्य हेतुत्वमिति । घटादेः सर्वथा वंसप्रतियोगित्वमित्येकांतोऽपि न कांतः, घटादिपर्यायाणामपि द्रव्यार्थतया ध्रुवत्वात् । प्रतियंति हि लोका अपि 'घटत्वेन घटो नष्टो न तु मृत्वेने'ति । उपादानोपादेययोर्भेदाभेदस्तु निपुणतरमुपपादित एवेति किमित्यानेडितविस्मरणशीलताऽऽयुष्मत इति ॥१॥ [श्लोक १ संपूर्ण]
श्रीहेममूरिवाचामाचामतिचातुरीपरविचारं ।
व्याख्याताद्यश्लोकस्तां परिचिनुते यशोविजयः ॥१॥ सत्केवलप्रकाशेन, भुवनाभोगभास्वते । भद्रंकराय भक्तानां, श्रीपार्थाय नमो नमः ॥२॥